अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 25
सूक्त - चातनः
देवता - अग्निः
छन्दः - पञ्चपदा बृहतीगर्भा जगती
सूक्तम् - शत्रुनाशन सूक्त
ये ते॒ शृङ्गे॑ अ॒जरे॑ जातवेदस्ति॒ग्महे॑ती॒ ब्रह्म॑संशिते। ताभ्यां॑ दु॒र्हार्द॑मभि॒दास॑न्तं किमी॒दिनं॑ प्र॒त्यञ्च॑म॒र्चिषा॑ जातवेदो॒ वि नि॑क्ष्व ॥
स्वर सहित पद पाठये इति॑ । ते॒ । शृङ्गे॒ इति॑ । अ॒जरे॒ इति॑ । जा॒त॒ऽवे॒द॒: । ति॒ग्महे॑ती इति॑ ति॒ग्मऽहे॑ती । ब्रह्म॑संशिते॒ इति॑ ब्रह्म॑ऽसशिते । ताभ्या॑म् । दु॒:ऽहार्द॑म् । अ॒भि॒ऽदास॑न्तम् । कि॒मी॒दिन॑म् । प्र॒त्यञ्च॑म् । अ॒र्चिषा॑ । जा॒त॒ऽवे॒द॒: । वि । नि॒क्ष्व॒ ॥३.२५॥
स्वर रहित मन्त्र
ये ते शृङ्गे अजरे जातवेदस्तिग्महेती ब्रह्मसंशिते। ताभ्यां दुर्हार्दमभिदासन्तं किमीदिनं प्रत्यञ्चमर्चिषा जातवेदो वि निक्ष्व ॥
स्वर रहित पद पाठये इति । ते । शृङ्गे इति । अजरे इति । जातऽवेद: । तिग्महेती इति तिग्मऽहेती । ब्रह्मसंशिते इति ब्रह्मऽसशिते । ताभ्याम् । दु:ऽहार्दम् । अभिऽदासन्तम् । किमीदिनम् । प्रत्यञ्चम् । अर्चिषा । जातऽवेद: । वि । निक्ष्व ॥३.२५॥
अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 25
विषय - राजा के धर्म का उपदेश।
पदार्थ -
(जातवेदः) हे बड़े ज्ञानवाले राजन् ! (ये) जो (ते) तेरे (अजरे) अजर [अनश्वर] (शृङ्गे) दो प्रधान सामर्थ्य [प्रजापालन और शत्रुनाशन] (तिग्महेती) तेज हथियारोंवाले, (ब्रह्मसंशिते) वेद से तीक्ष्ण किये गये हैं। (ताभ्याम्) उन दोनों से (दुर्हार्दम्) दुष्ट हृदयवाले, (अभिदासन्तम्) अति दुःख देनेवाले, (प्रत्यञ्चम्) प्रतिकूल चलनेवाले, (किमीदिनम्) [अब क्या हो रहा है, वह क्या हो रहा है, ऐसे] खोजी शत्रु को (अर्चिषा) अपने तेज से, (जातवेदः) हे बड़े धनवाले ! (वि निक्ष्व) तू नाश कर दे ॥२५॥
भावार्थ - जो वेदानुगामी राजा, अपनी राज्यशक्ति को प्रजापालन और शत्रुनाशन में लगाता है, वह कीर्तिमान् होता है ॥२५॥
टिप्पणी -
२५−(ये) (ते) तव (शृङ्गे) म० २४। द्वे प्राधान्ये प्रजापालनं शत्रुनाशनं च (अजरे) अजीर्णे। अनश्वरे (जातवेदः) हे प्रभूतधन (तिग्महेती) सुपां सुलुक्पूर्वसवर्णा०। पा० ७।१।३९। पूर्वसवर्णदीर्घः। तिग्महेतिनी। तीक्ष्णायुधे (ब्रह्मसंशिते) वेदद्वारा तीक्ष्णीकृते (ताभ्याम्) प्राधान्याभ्याम् (दुर्हार्दम्) अ० २।७।५। दुष्टहृदयम् (अभिदासन्तम्) सर्वतो हिंसन्तम् (किमीदिनम्) अ० १।७।१। पिशुनं शत्रुम् (प्रत्यञ्चम्) प्रतिकूलगन्तारम् (अर्चिषा) तेजसा (जातवेदः) हे बहुधन (वि निक्ष्व)-म० २४। विनाशय ॥