अथर्ववेद - काण्ड 2/ सूक्त 8/ मन्त्र 1
सूक्त - भृग्वङ्गिराः
देवता - वनस्पतिः, यक्ष्मनाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - क्षेत्रियरोगनाशन
उद॑गातां॒ भग॑वती वि॒चृतौ॒ नाम॒ तार॑के। वि क्षे॑त्रि॒यस्य॑ मुञ्चतामध॒मं पाश॑मुत्त॒मम् ॥
स्वर सहित पद पाठउत् । अ॒गा॒ता॒म् । भग॑वती॒ इति॒ भग॑ऽवती । वि॒ऽचृतौ॑ । नाम॑ । तार॑के॒ इति॑ ।वि । क्षे॒त्रि॒यस्य॑ । मु॒ञ्च॒ता॒म् । अ॒ध॒मम् । पाश॑म् । उ॒त्ऽत॒मम् ॥८.१॥
स्वर रहित मन्त्र
उदगातां भगवती विचृतौ नाम तारके। वि क्षेत्रियस्य मुञ्चतामधमं पाशमुत्तमम् ॥
स्वर रहित पद पाठउत् । अगाताम् । भगवती इति भगऽवती । विऽचृतौ । नाम । तारके इति ।वि । क्षेत्रियस्य । मुञ्चताम् । अधमम् । पाशम् । उत्ऽतमम् ॥८.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 8; मन्त्र » 1
Subject - Hereditary Diseases
Meaning -
Grown are two highly efficacious Vaishnavi herbs. Arisen are two stars in the sting of the zodiac Scorpio. May they slacken and remove the highest and lowest shackles of hereditary consumption and release the patient.