अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 8
अ॒स्मा इदु॒ ग्नाश्चि॑द्दे॒वप॑त्नी॒रिन्द्रा॑या॒र्कम॑हि॒हत्य॑ ऊवुः। परि॒ द्यावा॑पृथि॒वी ज॑भ्र उ॒र्वी नास्य॒ ते म॑हि॒मानं॒ परि॑ ष्टः ॥
स्वर सहित पद पाठअ॒स्मै । इत् । ऊं॒ इति॑ । ग्ना: । चि॒त् । दे॒वऽप॑त्नी: । इन्द्रा॑य । अ॒र्कम् । अ॒हि॒ऽहत्ये॑ । ऊ॒वु॒रित्यू॑वु: ॥ परि॑ । द्यावा॑पृथि॒वी इति॑ । ज॒भ्रे॒ । उ॒र्वी इति॑ । न । अ॒स्य॒ । ते इति॑ । म॒हि॒मान॑म् । परि॑ । स्त॒ इति॑ स्त: ॥३५.८॥
स्वर रहित मन्त्र
अस्मा इदु ग्नाश्चिद्देवपत्नीरिन्द्रायार्कमहिहत्य ऊवुः। परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानं परि ष्टः ॥
स्वर रहित पद पाठअस्मै । इत् । ऊं इति । ग्ना: । चित् । देवऽपत्नी: । इन्द्राय । अर्कम् । अहिऽहत्ये । ऊवुरित्यूवु: ॥ परि । द्यावापृथिवी इति । जभ्रे । उर्वी इति । न । अस्य । ते इति । महिमानम् । परि । स्त इति स्त: ॥३५.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 8
Subject - Indra Devata
Meaning -
For this Indra, blazing as the sun with light and grandeur, holy voices served and preserved by noble sages and scholars composed hymns of praise and offered homage to Indra on the breakup of the cloud. Indra holds both the vast heaven and earth, but these two do not comprehend his grandeur and greatness (which exceeds heaven and earth both).