अथर्ववेद - काण्ड 20/ सूक्त 36/ मन्त्र 1
य एक॒ इद्धव्य॑श्चर्षणी॒नामिन्द्रं॒ तं गी॒र्भिर॒भ्यर्च आ॒भिः। यः पत्य॑ते वृष॒भो वृष्ण्या॑वान्त्स॒त्यः सत्वा॑ पुरुमा॒यः सह॑स्वान् ॥
स्वर सहित पद पाठय: । एक॑: । इत् । हव्य॑: । च॒र्ष॒णी॒नाम् । इन्द्र॑म् । तम् । गी॒ऽभि: । अ॒भि । अ॒र्चे॒ । आ॒भि: ॥ य: । पत्य॑ते । वृ॒ष॒भ: । वृष्ण्य॑ऽवान् । स॒त्य: । सत्वा॑ । पु॒रु॒ऽमा॒य: । सह॑स्वान् ॥३६.१॥
स्वर रहित मन्त्र
य एक इद्धव्यश्चर्षणीनामिन्द्रं तं गीर्भिरभ्यर्च आभिः। यः पत्यते वृषभो वृष्ण्यावान्त्सत्यः सत्वा पुरुमायः सहस्वान् ॥
स्वर रहित पद पाठय: । एक: । इत् । हव्य: । चर्षणीनाम् । इन्द्रम् । तम् । गीऽभि: । अभि । अर्चे । आभि: ॥ य: । पत्यते । वृषभ: । वृष्ण्यऽवान् । सत्य: । सत्वा । पुरुऽमाय: । सहस्वान् ॥३६.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 36; मन्त्र » 1
Subject - Indr a Devata
Meaning -
The one sole lord of humanity worthy of yajnic homage is Indra, whom I adore with these words of praise. He it is, lord generous, giver of showers of strength and bliss, eternal, imperishable, omnificent, omnipotent and forbearing, who protects and sustains life as supreme father and guardian.