अथर्ववेद - काण्ड 9/ सूक्त 8/ मन्त्र 11
सूक्त - भृग्वङ्गिराः
देवता - सर्वशीर्षामयापाकरणम्
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मनिवारण सूक्त
ब॒हिर्बिलं॒ निर्द्र॑वतु॒ काहा॑बाहं॒ तवो॒दरा॑त्। यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत् ॥
स्वर सहित पद पाठब॒हि: । बिल॑म् । नि: । द्र॒व॒तु॒ । काहा॑बाहम् । तव॑ । उ॒दरा॑त् । यक्ष्मा॑णाम् । सर्वे॑षाम् । वि॒षम् । नि: । अ॒वो॒च॒म् । अ॒हम् । त्वत् ॥१३.११॥
स्वर रहित मन्त्र
बहिर्बिलं निर्द्रवतु काहाबाहं तवोदरात्। यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत् ॥
स्वर रहित पद पाठबहि: । बिलम् । नि: । द्रवतु । काहाबाहम् । तव । उदरात् । यक्ष्माणाम् । सर्वेषाम् । विषम् । नि: । अवोचम् । अहम् । त्वत् ॥१३.११॥
अथर्ववेद - काण्ड » 9; सूक्त » 8; मन्त्र » 11
Subject - Cure of Diseases
Meaning -
Let the disturbing ailment of wind and indigestion go out of your stomach through the excretory organs. Thus have I spoken of the curative formula of the poison of all consumptive diseases.