Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 7/ मन्त्र 2
    ऋषिः - गोतम ऋषिः देवता - सोमो देवता छन्दः - निचृत् आर्षी पङ्क्ति, स्वरः - निषादः
    0

    मधु॑मतीर्न॒ऽइष॑स्कृधि॒ यत्ते॑ सो॒मादा॑भ्यं॒ नाम॒ जागृ॑वि॒ तस्मै॑ ते सोम॒ सोमा॑य॒ स्वाहा॒ स्वाहो॒र्वन्तरि॑क्ष॒मन्वे॑मि॥२॥

    स्वर सहित पद पाठ

    मधु॑मती॒रिति॒ मधु॑ऽमतीः। नः॒। इषः॑। कृ॒धि॒। यत्। ते॒। सो॒म॒। अदा॑भ्यम्। नाम॑। जागृ॑वि। तस्मै॑। ते॒। सो॒म॒। सोमा॑य। स्वाहा॑। स्वाहा॑। उ॒रु। अ॒न्तरि॑क्षम्। अनु॑। ए॒मि॒ ॥२॥


    स्वर रहित मन्त्र

    मधुमतीर्नऽइषस्कृधि यत्ते सोमादाभ्यन्नाम जागृवि तस्मै ते सोम सोमाय स्वाहा स्वाहोर्वन्तरिक्षमन्वेमि ॥


    स्वर रहित पद पाठ

    मधुमतीरिति मधुऽमतीः। नः। इषः। कृधि। यत्। ते। सोम। अदाभ्यम्। नाम। जागृवि। तस्मै। ते। सोम। सोमाय। स्वाहा। स्वाहा। उरु। अन्तरिक्षम्। अनु। एमि॥२॥

    यजुर्वेद - अध्याय » 7; मन्त्र » 2
    Acknowledgment

    सपदार्थान्वयः - हे सोम=ऐश्वर्ययुक्त विद्वन् ! त्वं नः=अस्मभ्यं मधुमतीः मधुरगुणवतीः इषः अन्नानि कृधि कुरु, तथा-- हे सोम! शुभकर्मसु प्रेरक! अहं यत्=यस्मात् ते=तवाऽदाभ्यम् अहिंसनीयंजागृवि जागरूकं प्रसिद्धंनाम संज्ञा अस्ति, तस्मै सोमाय ऐश्वर्यस्यप्राप्तये ते=तुभ्यं च स्वाहा=सत्यां क्रियां स्वाहा=सत्यां वाणीं सत्यां वाचम् उरु विस्तीर्णम् अन्तरिक्षम् अवकाशं चान्वेमि अनुगच्छामि ॥ ७। २ ॥ [हे सोम=ऐश्वर्ययुक्त विद्वन्! त्वं नो मधुमतीरिष: कृधि]

    पदार्थः -
    (मधुमती:) मधुरगुणवतीः (नः) अस्मभ्यम् (इषः) अन्नानि (कृधि) कुरु (यत्) यस्मात् (ते) तव (सोम) ऐश्वर्य्ययुक्त विद्वन्! (अदाभ्यम्) अहिंसनीयम् (नाम) संज्ञा (जागृवि) जागरूकं प्रसिद्धम् (तस्मै) (ते) तुभ्यम् (सोम) शुभकर्मसु प्रेरक! (सोमाय) ऐश्वर्य्यस्य प्राप्तये (स्वाहा) सत्यां क्रियाम् (स्वाहा) सत्यां वाचम् (उरु) विस्तीर्णम् (अन्तरिक्षम्) अवकाशम् (अनु) (एमि) अनुगच्छामि ।। अयं मंत्रः शत० ४ । १।१ । १२-२१ व्याख्यातः ॥ २ ॥

    भावार्थः - मनुष्या यथा स्वसुखायान्नजलादिपदार्थान् सम्पादयेयुस्तथाऽन्येभ्योऽपि देयाः, [हे सोम! अहं यत्=यस्मात्ते=तवादाभ्यं जागृवि नामास्ति, तस्मै सोमाय ते=तुभ्यं च स्वाहा=सत्यां क्रियां, स्वाहा=सत्यां वाणीमुर्वन्तरिक्षं चान्वेमि] यथा काश्चित् स्वस्य प्रशंसां कुर्यात् तथान्यस्यस्वयमपि कुर्यात्, यथा विद्वांसः सद्गुणवन्तः सन्ति तथा तेऽपि भवेयुरिति ॥ ७ । २॥

    विशेषः - गोतमः। सोमः=ऐश्वर्ययुक्तो विद्वान्॥निचृदार्षी पंक्तिः । पञ्चमः ॥

    इस भाष्य को एडिट करें
    Top