Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 7/ मन्त्र 32
    ऋषिः - त्रिशोक ऋषिः देवता - विश्वेदेवा देवताः छन्दः - आर्षी गायत्री,आर्ची उष्णिक् स्वरः - ऋषभः, षड्जः
    0

    आ घा॒ऽअ॒ग्निमि॑न्ध॒ते स्तृ॒णन्ति॑ ब॒र्हिरा॑नु॒षक्। येषा॒मिन्द्रो॒ युवा॒ सखा॑। उ॒प॒या॒मगृ॑हीतोऽस्यग्नी॒न्द्राभ्यां॑ त्वै॒ष ते॒ योनि॑रग्नी॒न्द्राभ्यां॑ त्वा॥३२॥

    स्वर सहित पद पाठ

    आ। घ॒। ये। अ॒ग्निम्। इ॒न्ध॒ते। स्तृ॒णन्ति॑। ब॒र्हिः। आ॒नु॒षक्। येषा॑म्। इन्द्रः॑। युवा॑। सखा॑। उ॒पा॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। अ॒ग्नी॒न्द्राभ्या॑म्। त्वा॒। ए॒षः। ते॒। योनिः॑। अ॒ग्नी॒न्द्राभ्या॑म्। त्वा॒ ॥३२॥


    स्वर रहित मन्त्र

    आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् । येषामिन्द्रो युवा सखा । उपयामगृहीतो स्यग्नीन्द्राभ्यान्त्वैष ते योनिरग्नीन्द्राभ्यां त्वा ॥


    स्वर रहित पद पाठ

    आ। घ। ये। अग्निम्। इन्धते। स्तृणान्ति। बर्हिः। आनुषक्। येषाम्। इन्द्रः। युवा। सखा। उपायामगृहीत इत्युपयामऽगृहीतः। असि। अग्नीन्द्राभ्याम्। त्वा। एषः। ते। योनिः। अग्नीन्द्राभ्याम्। त्वा॥३२॥

    यजुर्वेद - अध्याय » 7; मन्त्र » 32
    Acknowledgment

    सपदार्थान्वयः - ये=वेदपारगा विद्वांसस्सभासदोऽग्निं विद्युदादिस्वरूपं घ एवं इन्धते प्रदीपयन्ति,येषां विदुषाम् आनुषक् अनुकूलतया बर्हि: अन्तरिक्षम् आस्तृणन्ति समन्ताद् यन्त्रैश्छादयन्ति, युवा तरुणावस्थः इन्द्रः=सभापतिः सकलैश्वर्यवान् सभापतिः प्रत्येकाङ्गपुष्टः सखा सुहृत् अस्ति, यस्त्वमग्नीन्द्राभ्यां सकलराज्यकर्म्मविचारविचक्षणाभ्यामग्नीन्द्रगुणयुक्ताभ्याम् उपयामगृहीतोऽसि, यस्य ते=तवैष योनिरस्ति, तं [त्वा]=त्वां प्राप्ता वयमग्नीन्द्राभ्यां [त्वा]=त्वामुपदिशामः॥ ७ । ३२ ।। [यस्त्वमग्नीन्द्राभ्यामुपयामगृहीतोऽसि, यस्य ते=तवैष योनिरस्ति तं [त्वा]=त्वां प्राप्तावयमग्नीन्द्राभ्यां [त्वा]=त्वामुपदिशामः]

    पदार्थः -
    (आ) समन्तात् (घ) एव । अत्र ऋचितुनुघ० ॥ ६ । ३ । १३३ ॥ इति दीर्घः (ये) वेदपारगा विद्वांसः (अग्निम्) विद्युदादिस्वरूपम् (इन्धते) प्रदीपयन्ति (स्तृणन्ति) यन्त्रैश्छादयन्ति (बर्हि:) अन्तरिक्षम् (आनुषक्) अनुकूलतया (येषाम्) विदुषाम् (इन्द्रः) सकलैश्वर्यवान् सभापतिः प्रत्येकाङ्गपुष्टः (युवा) तरुणावस्थः (सखा) सुहृत् (उपयामगृहीतः) (असि) (अग्नीन्द्राभ्याम्) सकलराज्यकर्म्मविचारविचक्षणाभ्यामग्नीन्द्रगुणयुक्ताभ्याम् (त्वा) त्वाम् (एष:) (ते) (योनिः) (अग्नीन्द्राभ्याम्) (त्वा) त्वाम् ।। ३२।।

    भावार्थः - राजधर्मे सर्वकर्मणः सभाधीनत्वाद् विचारसभासुप्रवृत्तेषु राजवर्गीयजनेषु द्वौ, त्रयो बहवो वा सभासदः स्वविचारेण यमर्थं निष्पादयेयुस्तदनुकूला एव प्रजाजना वर्त्तेरन् ।। ७ । ३२ ।।

    विशेषः - त्रिशोक।विश्वेदेवाः=विद्वांसः। आद्यस्यार्षी गायत्री।षड्ज:। उपेत्यस्वार्च्युष्णिक्। ऋषभः।।

    इस भाष्य को एडिट करें
    Top