यजुर्वेद - अध्याय 7/ मन्त्र 33
ऋषिः - मधुच्छन्दा ऋषिः
देवता - विश्वेदेवा देवताः
छन्दः - आर्षी गायत्री,निचृत् आर्षी उष्णिक्
स्वरः - मध्यमः, षड्जः
0
ओमा॑सश्चर्षणीधृतो॒ विश्वे॑ देवास॒ऽआग॑त। दा॒श्वासो॑ दा॒शुषः॑ सु॒तम्। उ॒प॒या॒मगृ॑हीतोऽसि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ऽए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑॥३३॥
स्वर सहित पद पाठओमा॑सः। च॒र्ष॒णी॒धृ॒तः॒। च॒र्ष॒णि॒धृ॒त॒ इति॑ चर्षणिऽधृतः। विश्वे॑। दे॒वा॒सः॒। आ। ग॒त॒। दा॒श्वासः॑। दा॒शुषः॑। सु॒तम्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। विश्वे॑भ्यः। त्वा॒। दे॒वेभ्यः॑। ए॒षः। ते॒। योनिः॑। विश्वे॑भ्यः। त्वा॒। दे॒वेभ्यः॑ ॥३३॥
स्वर रहित मन्त्र
ओमासश्चर्षणीधृतो विश्वे देवास आ गत । दाश्वाँसो दाशुषः सुतम् । उपयामगृहीतो सि विश्वेभ्यस्त्वा देवेभ्यऽएष ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः ॥
स्वर रहित पद पाठ
ओमासः। चर्षणीधृतः। चर्षणिधृत इति चर्षणिऽधृतः। विश्वे। देवासः। आ। गत। दाश्वासः। दाशुषः। सुतम्। उपयामगृहीत इत्युपयामऽगृहीतः। असि। विश्वेभ्यः। त्वा। देवेभ्यः। एषः। ते। योनिः। विश्वेभ्यः। त्वा। देवेभ्यः॥३३॥
विषयः - अध्यापकाध्येतॄणां परस्परं कर्त्तव्यमुपदिश्यते॥
सपदार्थान्वयः - हे चर्षणीधृतः! चर्षणय:=मनुष्यास्तान् धरन्ति=पोषयन्ति ते! ओमासः अवन्ति=सद्गुणै रक्षन्ति ते विश्वे सर्वे देवासः! विद्वांसः! यूयं दाश्वांसः उत्कृष्टज्ञानं दत्तवन्तः दाशुषः दानशीलस्योत्तमजनस्य सुतं सवति=सत्कर्मानुष्ठानेनैश्वर्यं प्राप्नोति तं बालकम्आगत । हे दाशुषः दानशीलस्योत्तमजनस्य सुताध्येतः! त्वमुपयामगृहीतःअध्यापननियमैः स्वीकृतः असि, अतस्त्वा त्वां विश्वेभ्यः अखिलेभ्यः देवेभ्यः विद्वद्भ्यः तत्सेवनायाज्ञापयामि, यतस्ते तव एषः विद्याशिक्षासंग्रहः योनिः कारणम् अस्ति, अतस्त्वा त्वां विश्वेभ्यः अखिलेभ्यः देवेभ्यः विद्वद्भ्यः शिक्षयामि ।। ७ । ३३ ।। [हे.......विश्वे देवासः! यूयं दाश्वांसो दाशुषः सुतमागत]
पदार्थः -
(ओमासः) अवन्ति=सद्गुणै रक्षन्ति ते (चर्षणीधृतः) चर्षणयो=मनुष्यास्तान् धरन्ति=पोषयन्ति ते । अन्येषामपिदृश्यते ॥ अ० ६ । ३ । १३७ ।। इति दीर्घः (विश्वे) सर्वे (देवासः) विद्वांसः (आ) (गत) (दाश्वांसः) उत्कृष्टज्ञानं दत्तवन्तः। दाश्वान् साह्वान् ॥ ६ । १ । १२ ।। इति निपातनम् (दाशुषः) दानशीलस्योत्तमजनस्य (सुतम्) सवति= सत्कर्मानुष्ठानेनैश्वर्यं प्राप्नोति तं बालकम् (उपयामगृहीतः) अध्यापननियमैः स्वीकृत: (असि) (विश्वेभ्यः) अखिलेभ्यः (त्वा) त्वाम् (देवेभ्यः) (विद्वद्भय:) (एषः) विद्याशिक्षासंग्रहः (ते) तव (योनिः) कारणम् (विश्वेभ्यः) अखिलेभ्यः (देवेभ्यः) विद्वद्भयः (त्वा) त्वाम् ॥ अयं मन्त्रः श० ४ । ३ । १ । २७ व्याख्यातः ॥ ३३॥
भावार्थः - सर्वेषां विदुषां विदुषीणां च योग्यताऽस्ति--सर्वेभ्यो बालकेभ्यः कन्याभ्यश्चाहर्निशं विद्यादानं, राज्ञां धनिनां च पदार्थै: स्वजीविकां च कुर्युः। ते राजानो धनिनश्च विद्यासुशिक्षाभ्यां प्रवीणा भूत्वा स्वस्याध्यापकेभ्यो विद्वद्भ्यो विदुषीभ्यश्च धनादिपदार्थान् दत्त्वा तेषां सेवनं कुर्युः। [हे दाशुषः सुताध्येतः! त्वमुपयामगृहीतोऽसि,अतस्त्वा विश्वेभ्यो देवेभ्यस्तत्सेवनायाज्ञापयामि] मातापितरावष्टवार्षिककुमारान् कुमारीश्च विद्याब्रह्मचर्यसेवनशिक्षाकरणाय विद्वद्भ्यो विदुषीभ्यश्च समर्पयेताम्, [त्वा विश्वेभ्यो देवेभ्यः शिक्षयामि] तेऽध्येतारो विद्याग्रहणे चेतो नित्यमभिदद्युस्तथाऽध्यापकाश्च विद्यासुशिक्षादाने नित्यं प्रयतेरन् ।। ७ । ३३।।
भावार्थ पदार्थः - देवासः=विद्वांसः, विदुष्यश्च । दाशुषः=राज्ञः, धनिश्च । सुतम्=बालकंकन्यां च ।
विशेषः - मधुच्छन्दा। विश्वेदेवाः=विद्वांसः॥ आद्यस्यार्षी गायत्री। षड्जः। उपयाम इत्यस्यार्ची बृहती। मध्यमः॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal