अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 9
सूक्त - बृहस्पतिः
देवता - फालमणिः, वनस्पतिः
छन्दः - त्र्यवसाना षट्पदा शक्वरी
सूक्तम् - मणि बन्धन सूक्त
यमब॑ध्ना॒द्बृह॒स्पति॑र्म॒णिं फालं॑ घृत॒श्चुत॑मु॒ग्रं ख॑दि॒रमोज॑से। तं सूर्यः॒ प्रत्य॑मुञ्चत॒ तेने॒मा अ॑जय॒द्दिशः॑। सो अ॑स्मै॒ भूति॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥
स्वर सहित पद पाठयम् । अब॑ध्नात् । बृह॒स्पति॑: । म॒णिम् । फाल॑म् । घृ॒त॒ऽश्चुत॑म् । उ॒ग्रम् । ख॒दि॒रम् । ओज॑से । तम् । सूर्य॑: । प्रति॑ । अ॒मु॒ञ्च॒त॒ । तेन॑ । इ॒मा: । अ॒ज॒य॒त् । दिश॑: । स: । अ॒स्मै॒ । भूति॑म् । इत् । दु॒हे॒ । भूय॑:ऽभूय:। श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.९॥
स्वर रहित मन्त्र
यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे। तं सूर्यः प्रत्यमुञ्चत तेनेमा अजयद्दिशः। सो अस्मै भूतिमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥
स्वर रहित पद पाठयम् । अबध्नात् । बृहस्पति: । मणिम् । फालम् । घृतऽश्चुतम् । उग्रम् । खदिरम् । ओजसे । तम् । सूर्य: । प्रति । अमुञ्चत । तेन । इमा: । अजयत् । दिश: । स: । अस्मै । भूतिम् । इत् । दुहे । भूय:ऽभूय:। श्व:ऽश्व: । तेन । त्वम् । द्विषत: । जहि ॥६.९॥
अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 9
Translation -
The formidable khadira blessing, obtained from plough-share, dripping purified butter, which the Lord supreme has bestowed for vigour, that (blessing) the Sun (Sūrya) has put on; with that he has conquered these quarters(disah). That, verily, yields purified butter to him, more and more, morrow to morrow. With that, may you destroy the malicious enemies.