अथर्ववेद - काण्ड 20/ सूक्त 12/ मन्त्र 3
यु॒जे रथं॑ ग॒वेष॑णं॒ हरि॑भ्या॒मुप॒ ब्रह्मा॑णि जुजुषा॒णम॑स्थुः। वि बा॑धिष्ट॒ स्य रोद॑सी महि॒त्वेन्द्रो॑ वृ॒त्राण्य॑प्र॒ती ज॑घ॒न्वान् ॥
स्वर सहित पद पाठयु॒जे । रथ॑म् । गो॒ऽएष॑णम् । हरिऽभ्याम् । उप॑ । ब्रह्मा॑णि । जु॒जु॒षा॒णम् । अ॒स्थु॒: ॥ वि । बाधि॒ष्ट॒ । स्य:। रोदसी॑ इति॑ । म॒हि॒ऽत्वा । इन्द्र॑: । वृ॒त्राणि॑ । अ॒प्र॒ति । ज॒घ॒न्वान् ॥१२.३॥
स्वर रहित मन्त्र
युजे रथं गवेषणं हरिभ्यामुप ब्रह्माणि जुजुषाणमस्थुः। वि बाधिष्ट स्य रोदसी महित्वेन्द्रो वृत्राण्यप्रती जघन्वान् ॥
स्वर रहित पद पाठयुजे । रथम् । गोऽएषणम् । हरिऽभ्याम् । उप । ब्रह्माणि । जुजुषाणम् । अस्थु: ॥ वि । बाधिष्ट । स्य:। रोदसी इति । महिऽत्वा । इन्द्र: । वृत्राणि । अप्रति । जघन्वान् ॥१२.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 12; मन्त्र » 3
Translation -
Almighty Divinity harnesses this splendid globe binding sun with powers of support and gravitatiou. The learned men attain Him who accepts the prayers of the devotees. He when tears as under the resistless clouds (to rain) straing the earth and heaven.