अथर्ववेद - काण्ड 4/ सूक्त 9/ मन्त्र 10
सूक्त - भृगुः
देवता - त्रैककुदाञ्जनम्
छन्दः - अनुष्टुप्
सूक्तम् - आञ्जन सूक्त
यदि॒ वासि॑ त्रैककु॒दं यदि॑ यामु॒नमु॒च्यसे॑। उ॒भे ते॑ भ॒द्रे नाम्नी॒ ताभ्यां॑ नः पाह्याञ्जन ॥
स्वर सहित पद पाठयदि॑ । वा॒ । असि॑ । त्रै॒क॒कु॒दम् । यदि॑ । या॒मु॒नम् । उ॒च्यसे॑ । उ॒भे इति॑ । ते॒ । भ॒द्रे इति॑ । नाम्नी॒ इति॑ । ताभ्या॑म् । न॒: । पा॒हि॒ । आ॒ऽअ॒ञ्ज॒न॒ ॥९.१०॥
स्वर रहित मन्त्र
यदि वासि त्रैककुदं यदि यामुनमुच्यसे। उभे ते भद्रे नाम्नी ताभ्यां नः पाह्याञ्जन ॥
स्वर रहित पद पाठयदि । वा । असि । त्रैककुदम् । यदि । यामुनम् । उच्यसे । उभे इति । ते । भद्रे इति । नाम्नी इति । ताभ्याम् । न: । पाहि । आऽअञ्जन ॥९.१०॥
अथर्ववेद - काण्ड » 4; सूक्त » 9; मन्त्र » 10
Translation -
O ointment, whether you are of the Trikakut mountain, or you are said to be of Yamuna, both of your names (Gangotri and Yamunotri) are excellent, with them, may you protect us.