अथर्ववेद - काण्ड 6/ सूक्त 138/ मन्त्र 3
सूक्त - अथर्वा
देवता - नितत्नीवनस्पतिः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - क्लीबत्व सूक्त
क्लीब॑ क्ली॒बं त्वा॑करं॒ वध्रे॒ वध्रिं॑ त्वाकर॒मर॑सार॒सं त्वा॑करम्। कु॒रीर॑मस्य शी॒र्षणि॒ कुम्बं॑ चाधि॒निद॑ध्मसि ॥
स्वर सहित पद पाठक्लीब॑ । क्ली॒बम् । त्वा॒ । अ॒क॒र॒म् । वध्रे॑ । वध्रि॑म् । त्वा॒ । अ॒क॒र॒म् । अर॑स । अ॒र॒सम् । त्वा॒ । अ॒क॒र॒म् । कु॒रीर॑म् । अ॒स्य॒। शी॒र्षाणि॑ । कुम्ब॑म् । च॒ । अ॒धि॒ऽनिद॑ध्मसि ॥१३८.३॥
स्वर रहित मन्त्र
क्लीब क्लीबं त्वाकरं वध्रे वध्रिं त्वाकरमरसारसं त्वाकरम्। कुरीरमस्य शीर्षणि कुम्बं चाधिनिदध्मसि ॥
स्वर रहित पद पाठक्लीब । क्लीबम् । त्वा । अकरम् । वध्रे । वध्रिम् । त्वा । अकरम् । अरस । अरसम् । त्वा । अकरम् । कुरीरम् । अस्य। शीर्षाणि । कुम्बम् । च । अधिऽनिदध्मसि ॥१३८.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 138; मन्त्र » 3
Translation -
O impotent, I have made you impotent. O eunuch (vadhri), have made you eunuch. O semenless, I have made you semenless. We put a woman’s head-dress (kuririnam) on his head and the hair-ornmament (kumbam) also .