अथर्ववेद - काण्ड 6/ सूक्त 138/ मन्त्र 4
सूक्त - अथर्वा
देवता - नितत्नीवनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - क्लीबत्व सूक्त
ये ते॑ ना॒ड्यौ दे॒वकृ॑ते॒ ययो॒स्तिष्ठ॑ति॒ वृष्ण्य॑म्। ते ते॑ भिनद्मि॒ शम्य॑या॒मुष्या॒ अधि॑ मु॒ष्कयोः॑ ॥
स्वर सहित पद पाठये इति॑ । ते॒ । ना॒ड्यौ᳡ । दे॒वकृ॑ते॒ इति॑ दे॒वऽकृ॑ते । ययो॑: । तिष्ठ॑ति । वृष्ण्य॑म् । ते इति॑ । ते॒ । भि॒न॒द्मि॒ । शम्य॑या । अ॒मुष्या॑: । अधि॑ । मु॒ष्कयो॑: ॥१३८.४॥
स्वर रहित मन्त्र
ये ते नाड्यौ देवकृते ययोस्तिष्ठति वृष्ण्यम्। ते ते भिनद्मि शम्ययामुष्या अधि मुष्कयोः ॥
स्वर रहित पद पाठये इति । ते । नाड्यौ । देवकृते इति देवऽकृते । ययो: । तिष्ठति । वृष्ण्यम् । ते इति । ते । भिनद्मि । शम्यया । अमुष्या: । अधि । मुष्कयो: ॥१३८.४॥
अथर्ववेद - काण्ड » 6; सूक्त » 138; मन्त्र » 4
Translation -
Your two vessels (nadyau) made by the bounties of Nature (devakrte), and in which the semen (vrsnyam) lies - crush those both of yours, placed just above the two testicles, on this stone with this stick. (Samyayd amusya)