अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 17
सूक्त - चातनः
देवता - अग्निः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
सं॑वत्स॒रीणं॒ पय॑ उ॒स्रिया॑या॒स्तस्य॒ माशी॑द्यातु॒धानो॑ नृचक्षः। पी॒यूष॑मग्ने यत॒मस्तितृ॑प्सा॒त्तं प्र॒त्यञ्च॑म॒र्चिषा॑ विध्य॒ मर्म॑णि ॥
स्वर सहित पद पाठस॒म्ऽव॒त्स॒रीण॑म् । पय॑: । उ॒स्रिया॑या: । तस्य॑ । मा । आ॒शी॒त् । या॒तु॒ऽधान॑: । नृ॒ऽच॒क्ष॒: । पी॒यूष॑म् । अ॒ग्ने॒ । य॒त॒म: । तितृ॑प्सात् । तम् । प्र॒त्यञ्च॑म् । अ॒र्चिषा॑ । वि॒ध्य॒ । मर्म॑णि ॥३.१७॥
स्वर रहित मन्त्र
संवत्सरीणं पय उस्रियायास्तस्य माशीद्यातुधानो नृचक्षः। पीयूषमग्ने यतमस्तितृप्सात्तं प्रत्यञ्चमर्चिषा विध्य मर्मणि ॥
स्वर रहित पद पाठसम्ऽवत्सरीणम् । पय: । उस्रियाया: । तस्य । मा । आशीत् । यातुऽधान: । नृऽचक्ष: । पीयूषम् । अग्ने । यतम: । तितृप्सात् । तम् । प्रत्यञ्चम् । अर्चिषा । विध्य । मर्मणि ॥३.१७॥
अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 17
Translation -
The ruddy cow yields milk through the year; let not the tormentor enjoy it, O observer of men. O adorable leader, whichever of them seeks his satisfaction with this nectar; pierce him straight through his vitals with your buming rage.