Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 14/ मन्त्र 2
सूक्त - भृग्वङ्गिराः
देवता - वरुणो अथवा यमः
छन्दः - अनुष्टुप्
सूक्तम् - कुलपाकन्या सूक्त
ए॒षा ते॑ राजन्क॒न्या॑ व॒धूर्नि धू॑यतां यम। सा मा॒तुर्ब॑ध्यतां गृ॒हे ऽथो॒ भ्रातु॒रथो॑ पि॒तुः ॥
स्वर सहित पद पाठए॒षा । ते॒ । रा॒ज॒न् । क॒न्या । व॒धू: । नि । धू॒य॒ता॒म् । य॒म॒ ।सा । मा॒तु: । व॒ध्य॒ता॒म् । गृ॒हे । अथो॒ इति॑ । भ्रातु॑: । अथो॒ इति॑ । पि॒तु: ॥
स्वर रहित मन्त्र
एषा ते राजन्कन्या वधूर्नि धूयतां यम। सा मातुर्बध्यतां गृहे ऽथो भ्रातुरथो पितुः ॥
स्वर रहित पद पाठएषा । ते । राजन् । कन्या । वधू: । नि । धूयताम् । यम ।सा । मातु: । वध्यताम् । गृहे । अथो इति । भ्रातु: । अथो इति । पितु: ॥
अथर्ववेद - काण्ड » 1; सूक्त » 14; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−राजन्। १।१०।१। हे ऐश्वर्यवन् जामातः। कन्या। अघ्न्यादयश्च। उ० ४।११२। इति कन प्रीतौ, द्युतौ, गतौ−यक्, टाप् च। कन्यते काम्यते दीप्यते गच्छति वा सा। कमनीया। पुत्री। वधूः। वहेर्धश्च। उ० १।८३। वह प्रापणे-ऊ प्रत्ययः, धश्च। वहति प्रापयति सुखानीति। यद्वा। बन्ध-ऊ, न लोपः। बध्नाति प्रेम्णा या नवोढा स्त्री, भार्या। नि। नितराम्, नियमेन। धूयताम्। धूञ् कम्पने−कर्मणि लोट्। चेष्टताम्, गृहकार्येषु प्रवर्तताम्। यम। यम नियमने−अच्। यमयति नियमयति गृहकार्याणीति। यमो यच्छतीति। सन्तः, मध्यस्थानदेवतासु−निरु० १०।१९। द्युस्थानः−निरु०, १२।१०, ११। वायुः, सूर्यः। हे नियामक वर ! मातुः। १।२।१। तव जनन्याः। बध्यताम्। बन्ध बन्धने कर्मणि लोट्। प्रेमबद्धा भवतु। गृहे। गेहे कः। पा० ३।१।१४४। इति ग्रह आदाने-क। वासस्थाने, भवने, मन्दिरे। अथो। अथ+उ। अपि च। भ्रातुः। नप्तृनेष्टॄत्वष्टृहोतृ०। उ० २।९५। इति भ्राज दीप्तौ−तृन्। सहोदरस्य। पितुः। म० १। जनकस्य ॥२॥
इस भाष्य को एडिट करें