Loading...
अथर्ववेद > काण्ड 1 > सूक्त 14

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 1/ सूक्त 14/ मन्त्र 3
    सूक्त - भृग्वङ्गिराः देवता - वरुणो अथवा यमः छन्दः - चतुष्पाद्विराडनुष्टुप् सूक्तम् - कुलपाकन्या सूक्त

    ए॒षा ते॑ कुल॒पा रा॑ज॒न्तामु॑ ते॒ परि॑ दद्मसि। ज्योक्पि॒तृष्वा॑साता॒ आ शी॒र्ष्णः स॒मोप्या॑त् ॥

    स्वर सहित पद पाठ

    ए॒षा । ते॒ । कु॒ल॒ऽपा: । रा॒ज॒न् । ताम् । ऊं॒ इति॑ । ते॒ । परि॑ । द॒द्म॒सि॒ । ज्योक् । पि॒तृषु॑ । आ॒सा॒तै॒ । आ । शी॒र्ष्ण: । सॅं॒म्ऽओप्या॑त् ॥


    स्वर रहित मन्त्र

    एषा ते कुलपा राजन्तामु ते परि दद्मसि। ज्योक्पितृष्वासाता आ शीर्ष्णः समोप्यात् ॥

    स्वर रहित पद पाठ

    एषा । ते । कुलऽपा: । राजन् । ताम् । ऊं इति । ते । परि । दद्मसि । ज्योक् । पितृषु । आसातै । आ । शीर्ष्ण: । सॅंम्ऽओप्यात् ॥

    अथर्ववेद - काण्ड » 1; सूक्त » 14; मन्त्र » 3

    टिप्पणीः - ३−कुलपाः। कुल+पा रक्षणे−कर्मण्युपपदे विच् प्रत्ययः। पातिव्रत्येन कुलस्य पालयित्री रक्षयित्री। राजन्। हे ऐश्वर्यवन् जामातः। ऊँ इति। अवश्यम्। परि+दद्मसि। इदन्तो मसिः। पा० ७।१।४६। इति मस इदन्तत्वम्। रक्षणार्थं दानं परिदानम्। रक्षणार्थं दद्मः, समर्पयामः। ज्योक्। म० १। दीर्घकालम्। पितृषु। म० १। मातापित्रादिबन्धुषु। आसातै। आस उपवेशने−लेटि आडागमः। टेः एत्वे। वैतोऽन्यत्र। पा० ३।४।९६। इति ऐकारः। आस्ताम्, निवसतु। आ-शीर्ष्णः। १।७।७। आङ् मर्यादावचने। पा० १।४।८९। इति आङः कर्मप्रवचनीयसंज्ञा। पञ्चम्यपाङ्परिभिः। पा० २।३।१०। इति पञ्चमी। शीर्षंश्छन्दसि। पा० ६।१।६०। इति शिरः शब्दस्य शीर्षन् आदेशः। मस्तकस्थितिपर्यन्तं, जीवनपर्य्यन्तम्। सम्-ओप्यात्=सम्+आ+उप्यात्। वप बीजवपने मुण्डने च-आशीर्लिङ्। यथामर्यादं बीजवपनं वर्धनं कुर्य्यात् ॥३॥

    इस भाष्य को एडिट करें
    Top