Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 22/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - सूर्यः
छन्दः - अनुष्टुप्
सूक्तम् - हृद्रोगकामलाशन सूक्त
परि॑ त्वा॒ रोहि॑तै॒र्वर्णै॑र्दीर्घायु॒त्वाय॑ दध्मसि। यथा॒यम॑र॒पा अस॒दथो॒ अह॑रितो॒ भुव॑त् ॥
स्वर सहित पद पाठपरि॑ । त्चा॒ । रोहि॑तै: । वर्णै॑: । दी॒र्घा॒यु॒ऽत्वाय॑ । द॒ध्म॒सि॒ । यथा॑ । अ॒यम् । अ॒र॒पा: । अस॑त् । अथो॒ इति॑ । अह॑रित: । भुव॑त् ॥
स्वर रहित मन्त्र
परि त्वा रोहितैर्वर्णैर्दीर्घायुत्वाय दध्मसि। यथायमरपा असदथो अहरितो भुवत् ॥
स्वर रहित पद पाठपरि । त्चा । रोहितै: । वर्णै: । दीर्घायुऽत्वाय । दध्मसि । यथा । अयम् । अरपा: । असत् । अथो इति । अहरित: । भुवत् ॥
अथर्ववेद - काण्ड » 1; सूक्त » 22; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−त्वा। त्वां रोगिणम्। रोहितैः। म० १। लोहितैः, रक्तैः वर्णैः। म० १। रङ्गैः। रञ्जनैः। दीर्घायुत्वाय। दीर्घ−आयुत्वाय। छन्दसीणः। उ० १।२। इण् गतौ−उण् भावे त्व प्रत्ययः। चिरकालजीवनाय। परिदध्मसि। म० १। सर्वतः पोषयामः। अरपाः। सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति−रप लप कथने−असुन्। रपो रिप्रमिति पापनामनी भवतः−निरु० ४।२१। अपापः, नीरुजः, नीरोगः। असत्। अस सत्तायाम्−लेट्। भवेत्। अथो। अथ−उ। तदनन्तरम् एव। अहरितः। हृश्याभ्यामितन्। उ० ३।९३। इति न+हृञ् हरणे−इतन्। पीतवर्णरहितः। भुवत्। भू सत्तायाम्−लेट्। भवेत् ॥
इस भाष्य को एडिट करें