Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 22/ मन्त्र 3
सूक्त - ब्रह्मा
देवता - हरिमा
छन्दः - अनुष्टुप्
सूक्तम् - हृद्रोगकामलाशन सूक्त
या रोहि॑णीर्देव॒त्या॑३ गावो॒ या उ॒त रोहि॑णीः। रू॒पंरू॑पं॒ वयो॑वय॒स्ताभि॑ष्ट्वा॒ परि॑ दध्मसि ॥
स्वर सहित पद पाठया: । रोहि॑णी: । दे॒व॒त्या: । गाव॑: । या: । उ॒त । रोहि॑णी: ।रू॒पम्ऽरू॑पम् । वय॑:ऽवय: । ताभि॑: । त्वा॒ । परि॑ । द॒ध्म॒सि॒ ॥
स्वर रहित मन्त्र
या रोहिणीर्देवत्या३ गावो या उत रोहिणीः। रूपंरूपं वयोवयस्ताभिष्ट्वा परि दध्मसि ॥
स्वर रहित पद पाठया: । रोहिणी: । देवत्या: । गाव: । या: । उत । रोहिणी: ।रूपम्ऽरूपम् । वय:ऽवय: । ताभि: । त्वा । परि । दध्मसि ॥
अथर्ववेद - काण्ड » 1; सूक्त » 22; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−रोहिणीः। रुहेश्च। उ० २।५५। इति रुह उद्भवे−इनन्। षिद्गौरादिभ्यश्च। पा० ४।१।४१। इति गौरादित्वात् ङीष्। वा छन्दसि। पा० ६।१।१०६। इति जसि पूर्वसवर्णदीर्घः। रोहयन्ति जनयन्ति स्वास्थ्यं ता रोहिण्यः, ओषधयः। देवत्याः। भवे छन्दसि। पा० ४।४।११०। इति देवता-यत्। दिव्यगुणयुक्ताः। गावः। स्त्रीलिङ्गम्। दिशाः। रोहिणीः। वर्णादनुदात्तात् तोपधात्तो नः। पा० ४।१।३९। इति रोहित−ङीप्, तकारस्य नकारः। जसि पूर्वसवर्णदीर्घः। रोहिण्यः, लोहितवर्णाः प्रातःसायंकालभवाः। रूपं−रूपम्। नित्यवीप्सयोः। पा० ८।१।४। इति द्विर्वचनम्। सर्वसौन्दर्येण। सर्वसौन्दर्याय। वयः−वयः। वय गतौ−असुन्। वीप्सायां द्विर्वचनम्। कृत्स्नेन यौवनेन, सर्वेण सामर्थ्येण। सर्वसामर्थ्याय। ताभिः। गोभिश्च रोहिणीभिश्च ॥
इस भाष्य को एडिट करें