Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 22/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - हृद्रोगः
छन्दः - अनुष्टुप्
सूक्तम् - हृद्रोगकामलाशन सूक्त
सुके॑षु ते हरि॒माणं॑ रोप॒णाका॑सु दध्मसि। अथो॒ हारि॑द्रवेषु ते हरि॒माणं॒ नि द॑ध्मसि ॥
स्वर सहित पद पाठसुके॑षु । ते॒ । ह॒रि॒माण॑म् । रो॒प॒णाका॑सु । द॒ध्म॒सि॒ । अथो॒ इति॑ । हारि॑द्रवेषु । ते॒ । ह॒रि॒माण॑म् । नि । द॒ध्म॒सि॒ ॥
स्वर रहित मन्त्र
सुकेषु ते हरिमाणं रोपणाकासु दध्मसि। अथो हारिद्रवेषु ते हरिमाणं नि दध्मसि ॥
स्वर रहित पद पाठसुकेषु । ते । हरिमाणम् । रोपणाकासु । दध्मसि । अथो इति । हारिद्रवेषु । ते । हरिमाणम् । नि । दध्मसि ॥
अथर्ववेद - काण्ड » 1; सूक्त » 22; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−सुकेषु। अन्येष्वपि दृश्यते। पा० ३।२।१०१। इति सु०+कै+शब्दे, यद्वा, कच दीप्तौ−ड। उत्तमेषु शब्देषु। उपायकथनेषु। हरिमाणम्। म० १। रोगजनितं हरिद्वर्णम्, सुखहरणशीलं रोगं शारीरिकं हार्दिकं वा। रोपणाकासु। रोपण−आकासु। रुह प्रादुर्भावे, णिच्−ल्युट्, हस्य पः। व्रण रोगे मांसाङ्कुरजननार्थक्रियादिकम् इति रोपणम्, ततः, आ+कम कान्तौ−ड ॥ “रोपणं समन्तात् कामयन्ति तासु क्रियासु लिप्तास्वोषधिषु”−इति श्रीमद्दयानन्दभाष्यम् ऋ० १।५०।१२। दध्मसि। म० १। वयं धारयामः, स्थापयामः। हारिद्रवेषु। वसिवपियजि०। उ० ४।१२५। इति हृञ् हरणे−इञ्। हरति रोगमिति हारिः, रुचिरः, मनोहरः। ॠदोरप्। पा० ३।३।५७। इति द्रु द्रवणे स्रवणे−अप्। इति, द्रवः, रसः। रुचिररसेषु। नि। नियमेन ॥
इस भाष्य को एडिट करें