Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 23/ मन्त्र 1
सूक्त - अथर्वा
देवता - असिक्नी वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - श्वेत कुष्ठ नाशन सूक्त
न॑क्तंजा॒तासि॑ ओषधे॒ रामे॒ कृष्णे॒ असि॑क्नि च। इ॒दं र॑जनि रजय कि॒लासं॑ पलि॒तं च॒ यत् ॥
स्वर सहित पद पाठन॒क्त॒म्ऽजा॒ता । अ॒सि॒ । ओ॒ष॒धे॒ । रामे॑ । कृष्णे॑ । असि॑क्नि । च॒ ।इ॒दम् । र॒ज॒नि॒ । र॒ज॒य॒ । कि॒लास॑म् । प॒लि॒तम् । च॒ । यत् ॥
स्वर रहित मन्त्र
नक्तंजातासि ओषधे रामे कृष्णे असिक्नि च। इदं रजनि रजय किलासं पलितं च यत् ॥
स्वर रहित पद पाठनक्तम्ऽजाता । असि । ओषधे । रामे । कृष्णे । असिक्नि । च ।इदम् । रजनि । रजय । किलासम् । पलितम् । च । यत् ॥
अथर्ववेद - काण्ड » 1; सूक्त » 23; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−नक्तम्-जाता। नज ह्रियि-क्त। नजते लज्जां प्राप्नोति अस्याम्। यद्वा। नक्क नाशने-क्त। नक्कयति नाशयति प्रकाशम् इति नक्तं रात्रिः। जनी प्रादुर्भावे-क्त। रात्रौ जाता उत्पन्ना। अज्ञातजन्मा। ओषधे। ओषः पाको धीयतेऽस्याम्, ओष+डुधाञ् धारणपोषणयोः−कर्मण्यधिकरणे च। पा० ३।३।९३। इति कि प्रत्ययः। ओषधय ओषद् धयन्तीति वा दोषं धयन्तीति वा−निरु० ९।२७। अस्यार्थः−ओषत् शरीरे दहद् रोगजातं धयन्ति पिबन्ति नाशयन्ति। ओषति दाहके ज्वरादौ एना धयन्ति पिबन्ति रोगिणो दाहोपशमनाय। पक्षद्वये, ओषत्+धेट्, पाने-कि। अथवा दोषं वातपित्तादिकं धयन्तीति वा। दोष+धेट्-कि। पृषोदरादित्वाद् दलोपः। हे रोगनाशकद्रव्य ! रामे। रमु क्रीडायाम् णिच् वा-घञ्। टाप्। रमते रमयति वेति रामा, हे रमणशीले, रमणकारिणि, सुखप्रदे। कृष्णे, कृषेर्वर्णे। उ० ३।४। इति बाहुलकाद् वर्णं विनापि। कृष आकर्षणे−नक्। टाप्। कर्षति आनन्दयति चित्तानि स्वमनोहरगुणेन। यद्वा, कर्षति वशीकरोति रोगान् सा कृष्णा। हे आकर्षणशीले। असिक्ना। अञ्चिघृसिभ्यः क्तः। उ० ३।८९। इति षिञ् बन्धने-क्त। अथवा। षो अन्तकर्मणि-क्त नञ्समासः। छन्दसि क्नमित्येके। वार्तिकम्, पा० ४।१।३९। इति असित−टाप्, तकारस्य क्नः। असिता असिक्ना। हे अबद्धशक्ते, अखण्डवीर्ये, पूर्णसारयुक्ते। रजनि। रञ्जेः क्युन्। उ० २।७९। इति रञ्ज खगे-क्युन्, स्त्रियां ङीप्। रञ्जयतीति रजनी। हे सुरञ्जनशीले ! रजय। रञ्ज रागे, नकारलोपः रञ्जय, स्वाभाविकरागयुक्तं कुरु। किलासम्। क्लीबलिङ्गम्। किल प्रेरणे, क्रीडे-क। कर्मण्यण्। पा० ३।२।१। किल+असु क्षेपणे−अण्। किलं वर्णम् अस्यति क्षिपति विकृतं करोतीति तत् किलासम्। वर्णदूषकम् सिध्मम्। कुष्ठरोगादिकम्। पलितम्। फलेरितजादेश्च पः। उ० ५।३४। इति फल भेदने निष्पत्तौ च−इतच्, फस्य पत्वम्। फलति निष्पन्नं पक्वमिव भवतीति पलितम्। अथवा पल गतौ रक्षणे च−इतच्। शरीरश्वेततारोगः। यत्। यत् किञ्चित् ॥
इस भाष्य को एडिट करें