Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 23/ मन्त्र 3
सूक्त - अथर्वा
देवता - असिक्नी वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - श्वेत कुष्ठ नाशन सूक्त
असि॑तं ते प्र॒लय॑नमा॒स्थान॒मसि॑तं॒ तव॑। असि॑क्न्यस्योषधे॒ निरि॒तो ना॑शया॒ पृष॑त् ॥
स्वर सहित पद पाठआसि॑तम् । ते॒ । प्र॒ऽलय॑नम् । आ॒ऽस्थान॑म् । आसि॑तम् । तव॑ । असि॑क्नी । अ॒सि॒ । ओ॒ष॒धे॒ । नि: । इ॒त: । ना॒श॒य॒ । पृष॑त् ॥
स्वर रहित मन्त्र
असितं ते प्रलयनमास्थानमसितं तव। असिक्न्यस्योषधे निरितो नाशया पृषत् ॥
स्वर रहित पद पाठआसितम् । ते । प्रऽलयनम् । आऽस्थानम् । आसितम् । तव । असिक्नी । असि । ओषधे । नि: । इत: । नाशय । पृषत् ॥
अथर्ववेद - काण्ड » 1; सूक्त » 23; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−असितम्। अञ्चिघृसिभ्यः क्तः। उ० ३।८९। इति षिञ् बन्धने−क्त। अथवा। षो अन्तकर्मणि=नाशने-क्त। नञ्समासः। अबद्धम्, अखण्डितम्। कृष्णवर्णम्−इति सायणः। प्र-लयनम्। प्र+लीङ् श्लेषे, प्राप्तौ−ल्युट्। प्रापणं, प्राप्तिः, लाभः। आ-स्थानम्। आङ्+ष्ठा गतिनिवृत्तौ−ल्युट्। विश्रामस्थानम्। तव। त्वदीयम्। असिक्नी। म० १। अबद्धा, सारवती। ओषधे। म० १। हे रोगनाशकद्रव्य ! अन्यत् सुगमं व्याख्यातं च ॥
इस भाष्य को एडिट करें