Loading...
अथर्ववेद > काण्ड 1 > सूक्त 23

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 1/ सूक्त 23/ मन्त्र 4
    सूक्त - अथर्वा देवता - असिक्नी वनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - श्वेत कुष्ठ नाशन सूक्त

    अ॑स्थि॒जस्य॑ कि॒लास॑स्य तनू॒जस्य॑ च॒ यत्त्व॒चि। दूष्या॑ कृ॒तस्य॒ ब्रह्म॑णा॒ लक्ष्म॑ श्वे॒तम॑नीनशम् ॥

    स्वर सहित पद पाठ

    अ॒स्थि॒ऽजस्य॑ । कि॒लास॑स्य । त॒नू॒ऽजस्य॑ । च॒ । यत् । त्व॒चि । दूप्या॑ । कृ॒तस्य॑ । ब्रह्म॑णा । लक्ष्म॑ । श्वे॒तम् । अ॒नी॒न॒श॒म् ॥


    स्वर रहित मन्त्र

    अस्थिजस्य किलासस्य तनूजस्य च यत्त्वचि। दूष्या कृतस्य ब्रह्मणा लक्ष्म श्वेतमनीनशम् ॥

    स्वर रहित पद पाठ

    अस्थिऽजस्य । किलासस्य । तनूऽजस्य । च । यत् । त्वचि । दूप्या । कृतस्य । ब्रह्मणा । लक्ष्म । श्वेतम् । अनीनशम् ॥

    अथर्ववेद - काण्ड » 1; सूक्त » 23; मन्त्र » 4

    टिप्पणीः - ४−अस्थि-जस्य। असिसञ्जिभ्यां क्थिन्। उ० ३।१५४। इति असु क्षेपणे-क्थिन्। अस्यते क्षिप्यते शरीरे तत् अस्थि, शरीरस्थ सप्तधातुमध्ये धातुविशेषः, कीकसम्। ततः। पञ्चम्यामजातौ। पा० ३।२।९८। इति जनी प्रादुर्भावे−ड प्रत्ययः। अस्थ्नो जातस्य मज्जाधातोः। किलासस्य। म० १। वर्णनाशकस्य कुष्ठरोगादिकस्य। तनू-जस्य। तन्वाः शरीराज् जायते, पूर्ववत् तनू+जनी−ड। शरीरजातस्य। यत्। लक्ष्म। त्वचि। तनोरनश्च वः। उ० २।६३। इति तनु विस्तारे−चिक प्रत्ययः, अन भागस्य वकारश्च। तन्यते विस्तीर्यते सा त्वक्। यद्वा। त्वच संवरणे−क्विप्। त्वचति संवृणोति भेदः शोणितादिकं सा। शरीरावरणे, चर्मणि। दूष्या। सर्वधातुभ्य इन्। उ० ४।११८। इति दुष वैरे, दुष्टकर्मणि−इन्। दूषयति प्राणिनं हिनस्तीति दूषिः, तया दुष्टक्रियया ब्रह्मचर्यखण्डनमद्यादिकुपथ्यसेवनरूपया। कृतस्य। उत्पादितस्य। ब्रह्मणा। १।८।४। वेदविज्ञानेन। लक्ष्म। सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति लक्ष दर्शने−मनिन्। चिह्नम्। श्वेतम्। श्वित शुक्लतायाम्−अच् घञ् वा। शुक्लवर्णयुक्तम्। अनीनशम्। णश अदर्शने−णिचि लुङि रूपम्। अहं नाशितवानस्मि ॥

    इस भाष्य को एडिट करें
    Top