Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 23/ मन्त्र 2
सूक्त - अथर्वा
देवता - असिक्नी वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - श्वेत कुष्ठ नाशन सूक्त
कि॒लासं॑ च पलि॒तं च॒ निरि॒तो ना॑शया॒ पृष॑त्। आ त्वा॒ स्वो वि॑शतां॒ वर्णः॒ परा॑ शु॒क्लानि॑ पातय ॥
स्वर सहित पद पाठकि॒लास॑म् । च॒ । प॒लि॒तम् । च॒ । नि: । इ॒त: । ना॒श॒य॒ । पृष॑त् । आ । त्वा॒ । स्व: । वि॒श॒ता॒म् । वर्ण॑: । परा॑ । शु॒क्लानि॑ । पा॒त॒य॒ ॥
स्वर रहित मन्त्र
किलासं च पलितं च निरितो नाशया पृषत्। आ त्वा स्वो विशतां वर्णः परा शुक्लानि पातय ॥
स्वर रहित पद पाठकिलासम् । च । पलितम् । च । नि: । इत: । नाशय । पृषत् । आ । त्वा । स्व: । विशताम् । वर्ण: । परा । शुक्लानि । पातय ॥
अथर्ववेद - काण्ड » 1; सूक्त » 23; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−किलासम्। म० १। वर्णविकारकरं कुष्ठादिरोगम्। पलितम्। म० १। शरीरश्वेततारोगम्। निर्। निरन्तरम्। इतः। अस्मात् पुरुषात्। नाशय। णश अदर्शने−णिच्। विनष्टं कुरु, घातय। पृषत्। वर्तमाने पृषद्बृहन्महत्०। उ० २।८४। पृष सेके हिंसने च−अति। विकृतचिह्नम्। त्वा। त्वाम्। ओषधिम्। स्वः। स्वन शब्दे−ड। स्वकीयः आत्मीयः। आ+विशताम्। प्रविशतां, व्याप्नोतु। वर्णः। १।२२।१। रूपम्। शुक्लानि। ऋज्रेन्द्राग्रवज्र०। उ० २।२८। इति शुच शौचे−रन्। रस्य लः। श्वेतानि श्वेतानि सितानि चिह्नानि। परा+पातय। पत, णिच्। दूरं प्रेरय ॥
इस भाष्य को एडिट करें