अथर्ववेद - काण्ड 15/ सूक्त 14/ मन्त्र 2
सूक्त - अध्यात्म अथवा व्रात्य
देवता - द्विपदासुरी गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
मन॑सान्ना॒देनान्न॑मत्ति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठमन॑सा । अ॒न्न॒ऽअ॒देन॑ । अन्न॑म् । अ॒त्ति॒ । य: । ए॒वम् । वेद॑ ॥१४.२॥
स्वर रहित मन्त्र
मनसान्नादेनान्नमत्ति य एवं वेद ॥
स्वर रहित पद पाठमनसा । अन्नऽअदेन । अन्नम् । अत्ति । य: । एवम् । वेद ॥१४.२॥
अथर्ववेद - काण्ड » 15; सूक्त » 14; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(मनसा) अन्तःकरणेन (अन्नादेन) म० १। जीवनरक्षकेण (अन्नम्) कॄवृजॄसिद्रुपन्यनि०। उ० ३।१०। अन जीवने-न प्रत्ययः, नित्। जीवनम् (अत्ति)अद भक्षणे अवने च, अदादिः-इति शब्दस्तोममहानिधिः। अवति रक्षति (यः) अतिथिः (एवम्) इण् गतौ-वन्। व्यापकं परमात्मानम् (वेद) जानाति ॥
इस भाष्य को एडिट करें