अथर्ववेद - काण्ड 15/ सूक्त 14/ मन्त्र 7
सूक्त - अध्यात्म अथवा व्रात्य
देवता - प्रस्तार पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
स यदुदी॑चीं॒दिश॒मनु॒ व्यच॑ल॒त् सोमो॒ राजा॑ भू॒त्वानु॒व्यचलत्सप्त॒र्षिभि॑र्हु॒तआहु॑तिमन्ना॒दीं कृ॒त्वा ॥
स्वर सहित पद पाठस: । यत् । उदी॑चीम् । दिश॑म् । अनु॑ । वि॒ऽअच॑लत् । सोम॑: । राजा॑ । भू॒त्वा । अ॒नु॒ऽव्य᳡चलत् । स॒प्त॒र्षिऽभि॑: । हु॒ते । आऽहु॑तिम् । अ॒न्न॒ऽअ॒दीम् । कृ॒त्वा ॥१४.७॥
स्वर रहित मन्त्र
स यदुदीचींदिशमनु व्यचलत् सोमो राजा भूत्वानुव्यचलत्सप्तर्षिभिर्हुतआहुतिमन्नादीं कृत्वा ॥
स्वर रहित पद पाठस: । यत् । उदीचीम् । दिशम् । अनु । विऽअचलत् । सोम: । राजा । भूत्वा । अनुऽव्यचलत् । सप्तर्षिऽभि: । हुते । आऽहुतिम् । अन्नऽअदीम् । कृत्वा ॥१४.७॥
अथर्ववेद - काण्ड » 15; सूक्त » 14; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७, ८−(उदीचीम्)उत्तराम्। वामभागवर्तमानाम् (सोमः) षु गतौ ऐश्वर्ये च-मन्। पुरुषार्थी (राजा)भूपतिः) (सप्तर्षिभिः) शीर्षण्यसप्तगोलकैः सह (हुते) होमे (आहुतिम्) दानक्रियाम् (अन्नादीम्) म० ६। जीवनरक्षिकाम् (आहुत्या) यज्ञाग्नौ दानक्रियया (अन्नाद्या)जीवनरक्षिकया। अन्यत् पूर्ववत्-म० १, २ ॥
इस भाष्य को एडिट करें