अथर्ववेद - काण्ड 15/ सूक्त 14/ मन्त्र 1
सूक्त - अध्यात्म अथवा व्रात्य
देवता - त्रिपदानुष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
स यत्प्राचीं॒दिश॒मनु॒ व्यच॑ल॒न्मारु॑तं॒ शर्धो॑ भू॒त्वानु॒व्यचल॒न्मनो॑ऽन्ना॒दं कृ॒त्वा॥
स्वर सहित पद पाठस: । यत् । प्राची॑म् । दिश॑म् । अनु॑ । वि॒ऽअच॑लत् । मारु॑तम् । शर्ध॑: । भू॒त्वा । अ॒नु॒ऽव्य᳡चलत् । मन॑: । अ॒न्न॒ऽअ॒दम् । कृ॒त्वा ॥१४.१॥
स्वर रहित मन्त्र
स यत्प्राचींदिशमनु व्यचलन्मारुतं शर्धो भूत्वानुव्यचलन्मनोऽन्नादं कृत्वा॥
स्वर रहित पद पाठस: । यत् । प्राचीम् । दिशम् । अनु । विऽअचलत् । मारुतम् । शर्ध: । भूत्वा । अनुऽव्यचलत् । मन: । अन्नऽअदम् । कृत्वा ॥१४.१॥
अथर्ववेद - काण्ड » 15; सूक्त » 14; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(सः) व्रात्योऽतिथिः (यत्) यदा (प्राचीम्) पूर्वाम्। अभिमुखीभूताम् (दिशम्) दिशाम् (अनु) अनुलक्ष्य (व्यचलत्) विचरितवान् (मारुतम्) अ० १।२०।१। मृग्रोरुतिः। उ० १।९४। मृङ्प्राणत्यागे-उति। मारयन्ति शत्रून् ते मरुतः। देवाः। मरुत्-अण्। शूराणामिदम् (शर्धः) बलम्-निघ० २।३। (भूत्वा) (अनुव्यचलत्) अनुक्रमेण विचरितवान् (मनः)अन्तःकरणम् (अन्नादम्) कॄवृजॄसिद्रुपन्यनिस्वपिभ्यो नित्। उ० ३।१०। अन जीवने-नप्रत्ययः, नित्। अद भक्षणे अवने च-इति शब्दस्तोममहानिधिः। कर्मण्यण्। पा० ३।२।१।अन्न+अद अवने रक्षणे-अण्। पदपाठे ह्रस्वत्वं पृषोदरादित्वात्। जीवनरक्षकम् (कृत्वा) विधाय ॥
इस भाष्य को एडिट करें