Loading...
अथर्ववेद के काण्ड - 15 के सूक्त 14 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 14/ मन्त्र 1
    ऋषि: - अध्यात्म अथवा व्रात्य देवता - त्रिपदानुष्टुप् छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त
    34

    स यत्प्राचीं॒दिश॒मनु॒ व्यच॑ल॒न्मारु॑तं॒ शर्धो॑ भू॒त्वानु॒व्यचल॒न्मनो॑ऽन्ना॒दं कृ॒त्वा॥

    स्वर सहित पद पाठ

    स: । यत् । प्राची॑म् । दिश॑म् । अनु॑ । वि॒ऽअच॑लत् । मारु॑तम् । शर्ध॑: । भू॒त्वा । अ॒नु॒ऽव्य᳡चलत् । मन॑: । अ॒न्न॒ऽअ॒दम् । कृ॒त्वा ॥१४.१॥


    स्वर रहित मन्त्र

    स यत्प्राचींदिशमनु व्यचलन्मारुतं शर्धो भूत्वानुव्यचलन्मनोऽन्नादं कृत्वा॥

    स्वर रहित पद पाठ

    स: । यत् । प्राचीम् । दिशम् । अनु । विऽअचलत् । मारुतम् । शर्ध: । भूत्वा । अनुऽव्यचलत् । मन: । अन्नऽअदम् । कृत्वा ॥१४.१॥

    अथर्ववेद - काण्ड » 15; सूक्त » 14; मन्त्र » 1
    Acknowledgment

    हिन्दी (2)

    विषय

    अतिथिके उपकार का उपदेश।

    पदार्थ

    (सः) वह [व्रात्यअतिथि] (यत्) जब (प्राचीम्) पूर्व वा सामनेवाली (दिशम् अनु) दिशा की ओर (व्यचलत्) विचरा, वह (मारुतम्) [शत्रुओं के मारनेवाले] शूरों का (शर्धः) बल (भूत्वा) होकर और (मनः) मन को (अन्नादम्) जीवनरक्षक (कृत्वा) करके (अनुव्यचलत्)लगातार चला गया ॥१॥

    भावार्थ

    ब्रह्मज्ञानी विद्वान्अतिथि अपने लगातार सदुपदेशों सत्कर्मों और सत्पराक्रमों से लोगों को बलवान् करकेसंसार की रक्षा करता है ॥१, २॥

    टिप्पणी

    १−(सः) व्रात्योऽतिथिः (यत्) यदा (प्राचीम्) पूर्वाम्। अभिमुखीभूताम् (दिशम्) दिशाम् (अनु) अनुलक्ष्य (व्यचलत्) विचरितवान् (मारुतम्) अ० १।२०।१। मृग्रोरुतिः। उ० १।९४। मृङ्प्राणत्यागे-उति। मारयन्ति शत्रून् ते मरुतः। देवाः। मरुत्-अण्। शूराणामिदम् (शर्धः) बलम्-निघ० २।३। (भूत्वा) (अनुव्यचलत्) अनुक्रमेण विचरितवान् (मनः)अन्तःकरणम् (अन्नादम्) कॄवृजॄसिद्रुपन्यनिस्वपिभ्यो नित्। उ० ३।१०। अन जीवने-नप्रत्ययः, नित्। अद भक्षणे अवने च-इति शब्दस्तोममहानिधिः। कर्मण्यण्। पा० ३।२।१।अन्न+अद अवने रक्षणे-अण्। पदपाठे ह्रस्वत्वं पृषोदरादित्वात्। जीवनरक्षकम् (कृत्वा) विधाय ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Vratya-Prajapati daivatam

    Meaning

    When Vratya moved into the eastern direction, he became the strength of the storm and thus moved. He made the mind as the consumer of food for strength.

    Top