अथर्ववेद - काण्ड 16/ सूक्त 2/ मन्त्र 5
सूक्त - वाक्
देवता - आर्ची अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - दुःख मोचन सूक्त
सुश्रु॑तिश्च॒मोप॑श्रुतिश्च॒ मा हा॑सिष्टां॒ सौप॑र्णं॒ चक्षु॒रज॑स्रं॒ ज्योतिः॑ ॥
स्वर सहित पद पाठसु॒ऽश्रु॑ति: । च॒ । मा॒ । उप॑ऽश्रुति: । च॒ । मा । हा॒सि॒ष्टा॒म् । सौप॑र्णम् । चक्षु॑: । अज॑स्रम् । ज्योति॑: ॥२.५॥
स्वर रहित मन्त्र
सुश्रुतिश्चमोपश्रुतिश्च मा हासिष्टां सौपर्णं चक्षुरजस्रं ज्योतिः ॥
स्वर रहित पद पाठसुऽश्रुति: । च । मा । उपऽश्रुति: । च । मा । हासिष्टाम् । सौपर्णम् । चक्षु: । अजस्रम् । ज्योति: ॥२.५॥
अथर्ववेद - काण्ड » 16; सूक्त » 2; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(सुश्रुतिः)शीघ्रश्रवणम् (च) (मा) माम् (उपश्रुतिः) विषयाणामङ्गीकारः (च) (मा हासिष्टाम्) ओहाक् त्यागे-लुङ्। न त्यजताम् (सौपर्णम्) धापॄवस्यज्यतिभ्यो नः। उ० ३।६। सु+पॄपालनपूरणयोः-न, सुपर्णम्-अण्। बहुपूर्त्तियुक्तम् (चक्षुः) दृष्टिः (अजस्रम्)निरन्तरम् (ज्योतिः) तेजः ॥
इस भाष्य को एडिट करें