अथर्ववेद - काण्ड 19/ सूक्त 2/ मन्त्र 5
ता अ॒पः शि॒वा अ॒पोऽय॑क्ष्मं॒कर॑णीर॒पः। यथै॒व तृ॑प्यते॒ मय॒स्तास्त॒ आ द॑त्त भेष॒जीः ॥
स्वर सहित पद पाठताः। अ॒पः। शि॒वाः। अ॒पः। अ॒य॒क्ष्म॒म्ऽकर॑णीः। अ॒पः। यथा॑। ए॒व। तृ॒प्य॒ते॒। मयः॑। ताः। ते॒। आ। द॒त्त॒। भे॒ष॒जीः ॥२.५॥
स्वर रहित मन्त्र
ता अपः शिवा अपोऽयक्ष्मंकरणीरपः। यथैव तृप्यते मयस्तास्त आ दत्त भेषजीः ॥
स्वर रहित पद पाठताः। अपः। शिवाः। अपः। अयक्ष्मम्ऽकरणीः। अपः। यथा। एव। तृप्यते। मयः। ताः। ते। आ। दत्त। भेषजीः ॥२.५॥
अथर्ववेद - काण्ड » 19; सूक्त » 2; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(ताः) पूर्वोक्ताः (अपः) जलानि (शिवाः) मङ्गलकरीः (अपः) (अयक्ष्मंकरणीः) आढ्यसुभगस्थूल०। पा० ३।२।५६। अयक्ष्म+करोतेः−ल्युन्, बाहुलकात्। अरुर्द्विषदजन्तस्य मुम्। पा० ६।३।६७। मुमागमः। आरोग्यकारिणीः (अपः) (यथा) येन प्रकारेण (एव) निश्चयेन (तृप्यते) वर्धते (मयः) सुखम् (ताः) अपः (ते) तुभ्यम् (आ) समन्तात् (दत्त) डुदाञ् दाने−लङ्। बहुलं छन्दस्यमाङ्योगेऽपि। पा० ६।४।७५। अडभावः। अदत्त। दत्तवान् स परमेश्वरः (भेषजीः) भयनिवारिकाः ॥
इस भाष्य को एडिट करें