Loading...
अथर्ववेद > काण्ड 2 > सूक्त 11

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 11/ मन्त्र 3
    सूक्त - शुक्रः देवता - कृत्यादूषणम् छन्दः - त्रिपदापरोष्णिक् सूक्तम् - श्रेयः प्राप्ति सूक्त

    प्रति॒ तम॒भि च॑र॒ यो ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। आ॑प्नु॒हि श्रेयां॑स॒मति॑ स॒मं क्रा॑म ॥

    स्वर सहित पद पाठ

    प्रति॑ । तम् । अ॒भि । च॒र॒ । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । आ॒प्नु॒हि । श्रेयां॑सम् । अति॑ । स॒मम् । क्रा॒म॒ ॥११.३॥


    स्वर रहित मन्त्र

    प्रति तमभि चर यो ऽस्मान्द्वेष्टि यं वयं द्विष्मः। आप्नुहि श्रेयांसमति समं क्राम ॥

    स्वर रहित पद पाठ

    प्रति । तम् । अभि । चर । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । आप्नुहि । श्रेयांसम् । अति । समम् । क्राम ॥११.३॥

    अथर्ववेद - काण्ड » 2; सूक्त » 11; मन्त्र » 3

    टिप्पणीः - ३–प्रति। अभिलक्ष्य। अभि+चर। अभिभव। नाशय। यः। दुराचारी पुरुषः। अस्मान्। धर्मचारिणः। द्वेष्टि। द्विष अप्रीतौ–अदादित्वात् शपो लुक्। अप्रीत्वा गृह्णाति। जिघांसति। द्विष्मः। अप्रीत्या गृह्णीमः। अन्यद् गतम् ॥

    इस भाष्य को एडिट करें
    Top