अथर्ववेद - काण्ड 2/ सूक्त 11/ मन्त्र 4
सूक्त - शुक्रः
देवता - कृत्यादूषणम्
छन्दः - पिपीलिकमध्यानिचृद्गायत्री
सूक्तम् - श्रेयः प्राप्ति सूक्त
सू॒रिर॑सि वर्चो॒धा अ॑सि तनू॒पानो॑ ऽसि। आ॑प्नु॒हि श्रेयां॑स॒मति॑ स॒मं क्रा॑म ॥
स्वर सहित पद पाठसू॒रि: । अ॒सि॒ । व॒र्च॒:ऽधा: । अ॒सि॒ । त॒नू॒ऽपान॑: । अ॒सि॒ । आ॒प्नु॒हि । श्रेयां॑सम् । अति॑ । स॒मम् । क्रा॒म॒ ॥११.४॥
स्वर रहित मन्त्र
सूरिरसि वर्चोधा असि तनूपानो ऽसि। आप्नुहि श्रेयांसमति समं क्राम ॥
स्वर रहित पद पाठसूरि: । असि । वर्च:ऽधा: । असि । तनूऽपान: । असि । आप्नुहि । श्रेयांसम् । अति । समम् । क्राम ॥११.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 11; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४–सूरिः। सूङः क्रिः उ० ४।६४। इति षूङ् प्राणिप्रसवे, यद्वा, षू प्रेरणे क्रि। सूते उत्पादयति, सुवति प्रेरयति वा सद्वाक्यानि। स्तोता–निघ० ३।१६। अभिज्ञः। पण्डितः। वर्चोधाः। वर्चस्+धाञ्–विच्। वर्चः–अ० १।९।४। वर्चसः, अन्नस्य तेजसो वा धाता। तनूपानः। तनू+पा रक्षणे–भावे ल्युट्। तनूनां पानं रक्षणं यस्मात् सः। शरीररक्षकः ॥
इस भाष्य को एडिट करें