अथर्ववेद - काण्ड 2/ सूक्त 15/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - प्राणः, अपानः, आयुः
छन्दः - त्रिपाद्गायत्री
सूक्तम् - अभय प्राप्ति सूक्त
यथा॒ द्यौश्च॑ पृथि॒वी च॒ न बि॑भी॒तो न रिष्य॑तः। ए॒वा मे॑ प्राण॒ मा बि॑भेः ॥
स्वर सहित पद पाठयथा॑ । द्यौ: । च॒ । पृ॒थि॒वी । च॒ । न । बि॒भी॒त: । न । रिष्य॑त: । ए॒व । मे॒ । प्रा॒ण॒ । मा । बि॒भे॒: ॥१५.१॥
स्वर रहित मन्त्र
यथा द्यौश्च पृथिवी च न बिभीतो न रिष्यतः। एवा मे प्राण मा बिभेः ॥
स्वर रहित पद पाठयथा । द्यौ: । च । पृथिवी । च । न । बिभीत: । न । रिष्यत: । एव । मे । प्राण । मा । बिभे: ॥१५.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 15; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १–यथा। येन प्रकारेण। द्यौः। अ० २।१२।६। द्योतन्ते लोका यत्र। आकाशम्। च। निश्चये। समुच्चये। पृथिवी। अ० १।२।१। प्रथ विस्तारे–षिवन्, ङीष्। भूमिः। सत्तास्थानम्। न। निषेधे। बिभीतः। ञिभी भये। दरं त्रासं प्राप्नुतः। रिष्यतः। रिष हिंसायाम्, दिवादिः सकर्मकः। हिनस्तः। आज्ञाभङ्गं कुरुतः–इत्यर्थः। एव। एवम्। तथा। मे। मम। प्राण। प्र+अन् जीवने–अच्, घञ् वा। हे आत्मन्। मा बिभेः। ञिभी भये, लङ्। त्वं शङ्कां मा कार्षीः ॥
इस भाष्य को एडिट करें