Loading...
अथर्ववेद > काण्ड 2 > सूक्त 28

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 28/ मन्त्र 5
    सूक्त - शम्भुः देवता - द्यावापृथिवी, आयुः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - दीर्घायु प्राप्ति सूक्त

    इ॒मम॒ग्न आयु॑षे॒ वर्च॑से नय प्रि॒यं रेतो॑ वरुण मित्र राजन्। मा॒तेवा॑स्मा अदिते॒ शर्म॑ यच्छ॒ विश्वे॑ देवा ज॒रद॑ष्टि॒र्यथास॑त् ॥

    स्वर सहित पद पाठ

    इ॒मम् । अ॒ग्ने॒ । आयु॑षे । वर्च॑से । न॒य॒ । प्रि॒यम् । रेत॑: । व॒रु॒ण॒ । मि॒त्रऽरा॒ज॒न् । मा॒ताऽइ॑व । अ॒स्मै॒ । अ॒दि॒ते॒ । शर्म॑ । य॒च्छ॒ । विश्वे॑ । दे॒वा॒: । ज॒रत्ऽअ॑ष्टि: । यथा॑ । अस॑त् ॥२८.५॥


    स्वर रहित मन्त्र

    इममग्न आयुषे वर्चसे नय प्रियं रेतो वरुण मित्र राजन्। मातेवास्मा अदिते शर्म यच्छ विश्वे देवा जरदष्टिर्यथासत् ॥

    स्वर रहित पद पाठ

    इमम् । अग्ने । आयुषे । वर्चसे । नय । प्रियम् । रेत: । वरुण । मित्रऽराजन् । माताऽइव । अस्मै । अदिते । शर्म । यच्छ । विश्वे । देवा: । जरत्ऽअष्टि: । यथा । असत् ॥२८.५॥

    अथर्ववेद - काण्ड » 2; सूक्त » 28; मन्त्र » 5

    टिप्पणीः - टिप्पणी–बम्बई गवर्नमेन्ट पुस्तक की संहिता और पदपाठ में [मित्र–राजन्] एक पद है, परन्तु सायणभाष्य और अन्य दो पुस्तकों में (मित्र राजन्) दो पद हैं, वही हमने लिये हैं ॥ ५–इमम्। प्राणिनम्। अग्ने। हे अग्नितत्त्व। आयुषे। एतेर्णिच्च। उ० २।११८। इति इण् गतौ–उसि। जीवनवर्धनाय। वर्चसे। अ० २।१३।२। तेजसे। अन्नाय। नय। प्रापय। द्विकर्मकः। प्रियम्। इगुपधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति प्रीङ् प्रीतौ कः। अचि श्नुधातुभ्रुवां० पा० ६।४।७७। इयङादेशः। हितकरम्। रेतः। स्रुरीभ्यां तुट् च। उ० ४।२०२। इति रीङ् क्षरणे–असुन्, तुट् च। शुक्रम्। वीर्यम्। प्रजननसामर्थ्यम्। वरुण। कॄवृदारिभ्य उनन्। उ० ३।५३। इति वृञ् वरणे–उनन्। उत्तमं जलमिति दयानन्दसरस्वती तद्वृत्तौ। अपानवायुः–यथा। ब्रह्माण्डस्थौ गमनागमनशीलौ मित्रावरुणौ प्राणापानौ–इति दयानन्दकृतयजुर्वेदभाष्ये, २।३। तत्संबुद्धौ। मित्र। हे प्राणवायो यथा पूर्वोक्तम्। राजन्। कनिन् युवृषितक्षिराजि०। उ० १।१५६। इति राजृ दीप्तौ, ऐश्वर्ये–कनिन्। राजति=ईष्टे–निघ० २।२१। हे दीप्यमान, हे ऐश्वर्यवत्। मातेव। जननीव। अस्मै। प्राणिने। अदिते। म० ४। हे प्रकृते। भूमे। शर्म। अ० १।२०।३। शॄ हिंसायाम्–मनिन्। गृहम्। निघं० ३।४। सुखम्–निघ० ३।६। यच्छ। देहि। विश्वे। सर्वे। देवाः। दिव्याः पदार्थाः पुरुषा वा। जरदष्टिः। जीर्यतेरतृन्। पा० ३।२।१०४। इति बाहुलकाद् जरतेः स्तुतिकर्मणः–अतृन्। अशू व्याप्तौ, अश भोजने–क्तिन् जरता स्तुत्या सह अष्टिः कार्यव्याप्तिर्भोजनं वा यस्य सः। यथा। येन प्रकारेण। असत्। अस्तेर्लेटि अडागमः। भवेत् ॥

    इस भाष्य को एडिट करें
    Top