अथर्ववेद - काण्ड 2/ सूक्त 29/ मन्त्र 1
सूक्त - अथर्वा
देवता - अग्निः, आयुः, बृहस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - दीर्घायुष्य सूक्त
पार्थि॑वस्य॒ रसे॑ देवा॒ भग॑स्य त॒न्वो॑३ बले॑। आ॑यु॒ष्य॑म॒स्मा अ॒ग्निः सूर्यो॒ वर्च॒ आ धा॒द्बृह॒स्पतिः॑ ॥
स्वर सहित पद पाठपार्थि॑वस्य । रसे॑ । दे॒वा॒: । भग॑स्य । त॒न्व᳡: । बले॑ । आ॒यु॒ष्य᳡म् । अ॒स्मै । अ॒ग्नि: । सूर्य॑: । वर्च॑: । आ । धा॒त् । बृ॒ह॒स्पति॑: ॥२९.१॥
स्वर रहित मन्त्र
पार्थिवस्य रसे देवा भगस्य तन्वो३ बले। आयुष्यमस्मा अग्निः सूर्यो वर्च आ धाद्बृहस्पतिः ॥
स्वर रहित पद पाठपार्थिवस्य । रसे । देवा: । भगस्य । तन्व: । बले । आयुष्यम् । अस्मै । अग्नि: । सूर्य: । वर्च: । आ । धात् । बृहस्पति: ॥२९.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 29; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १–पार्थिवस्य। अ० २।२८।३। भूमेः सम्बन्धिनः। रसे। रस स्वने आस्वादे–अच्। सारे शरीरपुष्टौ। देवाः। हे व्यवहारकुशला विद्वांसः। भगस्य। अ० १।१४।१। भज सेवायाम्–घ। ऐश्वर्यस्य। तन्वः। अ० १।१। विस्तारस्य। बले। आत्मशरीरसामर्थ्ये। आयुष्यम्। तस्मै हितम्। पा० ५।१।५। आयुष्–यत्। जीवनवर्धकम्। अस्मै। निर्दिष्टप्राणिने। अग्निः। व्यापकः। तेजोविशेषः। सूर्यः। अ० १।३।५। राजसूयसूर्य०। पा० ३।१।११४। अत्र सिद्धान्तकौमुदीटीकायां भट्टोजिदीक्षितः। “सरत्याकाशे सूर्यः। यद्वा सुवति कर्मणि लोकं प्रेरयतीति”। परमेश्वरः। सूर्यलोकः। वर्चः। तेजः शरीरकान्तिर्ब्रह्मवर्चसं च। आ। समन्तात्। यथाविधि। धात्। छान्दसं रूपम्। धत्तात्। धेयात्। स्थापयतु। बृहस्पतिः। अ० १।८।२। महतां पृथिव्यादिलोकानां रक्षकः प्रकाशवृष्टिदानेनाकर्षणेन च। परमात्मा। सूर्यः ॥
इस भाष्य को एडिट करें