अथर्ववेद - काण्ड 2/ सूक्त 29/ मन्त्र 5
सूक्त - अथर्वा
देवता - द्यावापृथिवी, विश्वे देवाः, मरुद्गणः, आपो देवाः
छन्दः - त्रिष्टुप्
सूक्तम् - दीर्घायुष्य सूक्त
ऊर्ज॑मस्मा ऊर्जस्वती धत्तं॒ पयो॑ अस्मै पयस्वती धत्तम्। ऊर्ज॑म॒स्मै द्याव॑पृथि॒वी अ॑धातां॒ विश्वे॑ दे॒वा म॒रुत॒ ऊर्ज॒मापः॑ ॥
स्वर सहित पद पाठऊर्ज॑म् । अ॒स्मै॒ । ऊ॒र्ज॒स्व॒ती॒ इति॑ । ध॒त्त॒म् । पय॑: । अ॒स्मै॒ । प॒य॒स्व॒ती॒ इति॑ । ध॒त्त॒म् । ऊर्ज॑म् । अ॒स्मै । द्यावा॑पृथि॒वी इति॑ । अ॒धा॒ता॒म् । विश्वे॑ । दे॒वा: । म॒रुत॑: । ऊर्ज॑म् । आप॑: ॥२९.५॥
स्वर रहित मन्त्र
ऊर्जमस्मा ऊर्जस्वती धत्तं पयो अस्मै पयस्वती धत्तम्। ऊर्जमस्मै द्यावपृथिवी अधातां विश्वे देवा मरुत ऊर्जमापः ॥
स्वर रहित पद पाठऊर्जम् । अस्मै । ऊर्जस्वती इति । धत्तम् । पय: । अस्मै । पयस्वती इति । धत्तम् । ऊर्जम् । अस्मै । द्यावापृथिवी इति । अधाताम् । विश्वे । देवा: । मरुत: । ऊर्जम् । आप: ॥२९.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 29; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५–ऊर्जम्। म० ३। अन्नम्। ऊर्जस्वती। ऊर्ज बलप्राणनयोः–असुन्। ततो मतुप्। मस्य वः। तसौ मत्वर्थे। पा० १।४।४९। इति भत्वाद् रुत्वाभावः। विभक्तेः पूर्वसवर्णदीर्घः। हे अन्नवत्यौ। बलवत्यौ मातापितरौ। धत्तम्। दत्तम्। पयः। अ० १।४।१। दुग्धम्। जलम्। अस्मै। जीवाय। पयस्वती। पूर्ववत् सिद्धिः। दुग्धवत्यौ। जलवत्यौ। द्यावापृथिवी। अ० २।१।४। प्रगृह्यत्वाद् अचि प्रकृतिभावः। सूर्यभूमी। अधाताम्। डुधाञ्–लुङ्। दत्तवत्यौ। विश्वे। सर्वे। देवाः। दिव्यगुणयुक्ताः। मरुतः। अ० १।२०।१। अथातो मध्यस्थाना देवगणास्तेषां मरुतः प्रथमगामिनो भवन्ति मरुतो मितराविणो वा मितरोचिनो वा महद् द्रवन्तीति वा–निरु० ११।१३। वायुः। ऋत्विजः। शूराः पुरुषाः। आपः। अ० १।४।३। जलम्। आप्ताः प्रजाः–दयानन्दभाष्ये, य० ६।२७ ॥
इस भाष्य को एडिट करें