अथर्ववेद - काण्ड 2/ सूक्त 29/ मन्त्र 2
सूक्त - अथर्वा
देवता - आयुः, जातवेदाः, प्रजा, त्वष्टा, सविता, धनम्, शतायुः
छन्दः - त्रिष्टुप्
सूक्तम् - दीर्घायुष्य सूक्त
आयु॑र॒स्मै धे॑हि जातवेदः प्र॒जां त्व॑ष्टरधि॒निधे॑ह्य॒स्मै। रा॒यस्पोषं॑ सवित॒रा सु॑वा॒स्मै श॒तं जी॒वाति॑ श॒रद॒स्तवा॒यम् ॥
स्वर सहित पद पाठआयु॑: । अ॒स्मै । धे॒हि॒ । जा॒त॒ऽवे॒द॒: । प्र॒ऽजाम् । त्व॒ष्ट॒: । अ॒धि॒ऽनिधे॑हि । अ॒स्मै। रा॒य: । पोष॑म् । स॒वि॒त॒: । आ । सु॒व॒ । अ॒स्मै । श॒तम् । जी॒वा॒ति॒ । श॒रद॑: । तव॑ । अ॒यम् ॥२९.२॥
स्वर रहित मन्त्र
आयुरस्मै धेहि जातवेदः प्रजां त्वष्टरधिनिधेह्यस्मै। रायस्पोषं सवितरा सुवास्मै शतं जीवाति शरदस्तवायम् ॥
स्वर रहित पद पाठआयु: । अस्मै । धेहि । जातऽवेद: । प्रऽजाम् । त्वष्ट: । अधिऽनिधेहि । अस्मै। राय: । पोषम् । सवित: । आ । सुव । अस्मै । शतम् । जीवाति । शरद: । तव । अयम् ॥२९.२॥
अथर्ववेद - काण्ड » 2; सूक्त » 29; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २–अग्नि के प्रभाव से शरीर में चेष्टा होती है और सूर्य से वृष्टि, वृष्टि से अन्न, अन्न से बल होता है। जो मनुष्य योग्य प्रयोग से इनको अनुकूल रखता है, वह प्रजावान्, धनवान् और आयुष्मान् होता है ॥२॥ २–आयुः। जीवनम्। अस्मै। समीपस्थाय प्राणिने। धेहि। डुधाञ् धारणपोषणदानेषु। देहि। प्रयच्छ। जातवेदः। अ० १।७।२। वेदो धनम्। निघ० २।१०। जातेभ्यः प्राणिभ्यो धनं ज्ञानं वा यस्मात् स जातवेदाः। हे प्राणिभ्यो धनप्रद, सर्वज्ञ, परमेश्वर ! प्रजाम्। सन्तानम्। पुत्रपौत्रभृत्यादिकम्। त्वष्टः। अ० २।५।६। त्वक्ष कार्श्ये–तृन्। हे तनूकारक। विश्वकर्मन्। सूर्य। अधिनिधेहि। अधिकं बाहुल्येन स्थापय। रायस्पोषम्। अ० १।९।४। रायो धनस्य पोषं वर्धनम्। सवितः। अ० १।१८।२। षु षू वा प्रसवैश्वर्ययोः–तृचि। स्वरतिसूतिसूयतिधूञूदितो वा। पा० ७।२।४४। विकल्पाद् इडागमः। परमेश्वरः। वृष्टिदानादिना शरीरिणां जनयिता सूर्यः। हे उत्पादक। ऐश्वर्यवन्। आ। अभिमुखम्। सुव। षू प्ररणे। प्रेरय। प्रापय। शतम्। बह्वीः। अपरिमिताः। जीवाति। जीव प्राणधारणे–लेट्। आडागमः। जीवतु। शरदः। अ० १।१०।२। शरदृतून्। संवत्सरान्। तव। तवानुगृहीतः। अयम्। प्राणी ॥
इस भाष्य को एडिट करें