Loading...
अथर्ववेद > काण्ड 2 > सूक्त 29

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 29/ मन्त्र 6
    सूक्त - अथर्वा देवता - अश्विनीकुमारौ छन्दः - त्रिष्टुप् सूक्तम् - दीर्घायुष्य सूक्त

    शि॒वाभि॑ष्टे॒ हृद॑यं तर्पयाम्यनमी॒वो मो॑दिषीष्ठाः सु॒वर्चाः॑। स॑वा॒सिनौ॑ पिबतां म॒न्थमे॒तम॒श्विनो॑ रू॒पं प॑रि॒धाय॑ मा॒याम् ॥

    स्वर सहित पद पाठ

    शि॒वाभि॑: । ते॒ । हृद॑यम् । त॒र्प॒या॒मि॒ । अ॒न॒मी॒व: । मो॒दि॒षी॒ष्ठा॒: । सु॒ऽवर्चा॑: । स॒ऽवा॒सिनौ॑ । पि॒ब॒ता॒म् । म॒न्थम् । ए॒तम् । अ॒श्विनो॑: । रू॒पम् । प॒रि॒ऽधाय॑ । मा॒याम् ॥२९.६॥


    स्वर रहित मन्त्र

    शिवाभिष्टे हृदयं तर्पयाम्यनमीवो मोदिषीष्ठाः सुवर्चाः। सवासिनौ पिबतां मन्थमेतमश्विनो रूपं परिधाय मायाम् ॥

    स्वर रहित पद पाठ

    शिवाभि: । ते । हृदयम् । तर्पयामि । अनमीव: । मोदिषीष्ठा: । सुऽवर्चा: । सऽवासिनौ । पिबताम् । मन्थम् । एतम् । अश्विनो: । रूपम् । परिऽधाय । मायाम् ॥२९.६॥

    अथर्ववेद - काण्ड » 2; सूक्त » 29; मन्त्र » 6

    टिप्पणीः - ६–शिवाभिः। शिव–टाप्। अ० २।६।३। मङ्गलवतीभिर्विद्याभिः शक्तिभिर्वा। (शिवाभिष्टे) युष्मत्तत्ततक्षुष्वन्तःपादम्। पा० ८।३।१०३। इति षत्वम्। ते। तव। हृदयम्। वृह्रोः षुग्दुकौ च। उ० ४।१००। इति हृञ्। कयन् दुक् च। हरति स्वीकरोति विषयानिति। मनः। तर्पयामि। सुखयामि। अनमीवः। इण्शीभ्यां वन्। उ० १।१५२। इति अम रोगे–वन्, ईडागमः। रोगरहितः। मोदिषीष्ठाः। मुद हर्षे। आशिषि लिङ्। मोदस्व। हृष्टो भव। सुवर्चाः। सु+वर्च–असुन्। सुतेजस्कः। सवासिनौ। व्रते। पा० ३।२।८०। इति वस निवासे–णिनि। समानस्य सभावः। पुमान् स्त्रिया। पा० ३।२।६७। इत्येकशेषः। समानम् एकत्र निवसन्तौ स्त्रीपुरुषौ। पिबताम्। पीतं कुरुताम्। मन्थम्। मन्थ गाहे–घञ् विलोडनम्। रसम्। एतम्। निर्दिष्टम्। वेदोक्तम्। अश्विनोः। अशूप्रुशिलटि०। उ० १।१५१। अशू व्याप्तौ–क्वन्। अश्वो व्याप्तिः–इनि प्रत्ययः। एकशेषः पूर्ववत्। अश्विनौ द्यावापृथिव्यावित्येकेऽहोरात्रावित्येके सूर्याचन्द्रमसावित्येके राजानौ पुण्यकृतावित्यैतिहासिकाः–निरु० १२।१। कार्येषु व्याप्तिमतोः, जननीजनकयोः। रूपम्। स्वभावम्। परिधाय। धृत्वा। मायाम्। माछाशसिभ्यो यः। उ० ४।१०९। माङ् माने य, टाप्। बुद्धिम्। प्रज्ञाम्–निघ० ३।९ ॥

    इस भाष्य को एडिट करें
    Top