Loading...
अथर्ववेद > काण्ड 2 > सूक्त 29

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 29/ मन्त्र 3
    सूक्त - अथर्वा देवता - इन्द्रः, सौप्रजाः छन्दः - त्रिष्टुप् सूक्तम् - दीर्घायुष्य सूक्त

    आ॒शीर्ण॒ ऊर्ज॑मु॒त सौ॑प्रजा॒स्त्वं दक्षं॑ धत्तं॒ द्रवि॑णं॒ सचे॑तसौ। जयं॒ क्षेत्रा॑णि॒ सह॑सा॒यमि॑न्द्र कृण्वा॒नो अ॒न्यानध॑रान्त्स॒पत्ना॑न् ॥

    स्वर सहित पद पाठ

    आ॒ऽशी: । न॒: । ऊर्ज॑म् । उ॒त । सौ॒प्र॒जा॒:ऽत्वम् । दक्ष॑म् । ध॒त्त॒म् । द्रवि॑णम् । सऽचे॑तसौ । जय॑म् । क्षेत्रा॑णि । सह॑सा । अ॒यम् । इ॒न्द्र॒ । कृ॒ण्वा॒न: । अ॒न्यान् । अध॑रान् । स॒ऽपत्ना॑न् ॥२९.३॥


    स्वर रहित मन्त्र

    आशीर्ण ऊर्जमुत सौप्रजास्त्वं दक्षं धत्तं द्रविणं सचेतसौ। जयं क्षेत्राणि सहसायमिन्द्र कृण्वानो अन्यानधरान्त्सपत्नान् ॥

    स्वर रहित पद पाठ

    आऽशी: । न: । ऊर्जम् । उत । सौप्रजा:ऽत्वम् । दक्षम् । धत्तम् । द्रविणम् । सऽचेतसौ । जयम् । क्षेत्राणि । सहसा । अयम् । इन्द्र । कृण्वान: । अन्यान् । अधरान् । सऽपत्नान् ॥२९.३॥

    अथर्ववेद - काण्ड » 2; सूक्त » 29; मन्त्र » 3

    टिप्पणीः - ३–आशीः। आङः शासु इच्छायाम्–क्विप्, उपधाया इत्त्वम्। आशीर्वादः। मङ्गलवचनम्। नः। अस्मभ्यम्+अस्तु। ऊर्जम्। ऊर्ज बलप्राणनयोः–क्विप्। ऊर्गित्यन्ननामोर्जयतीति सतः पक्वं सुप्रवृक्णमिति वा–निरु० ३।८। ऊर्जयति प्रबलति बलवन्तं प्राणवन्तं वा करोतीति सा ऊर्क्। अन्नम्। उत। अपि च। सौप्रजास्त्वम्। नित्यमसिच् प्रजामेधयोः। पा० ५।४।१२२। इति सु+प्रजा–असिच्। छान्दसौ वृद्धिदीर्घौ। सुप्रजस्त्वम्। शोभनसन्तानत्वम्। दक्षम्। दक्ष वृद्धौ–अच्। पुष्टिम्। दक्षः=बलम्। निघ० २।९। धत्तम्। युवां धारयतम्। स्थापयतम्। द्रविणम्। द्रुदक्षिभ्यामिनन्। उ० २२।५०। इति द्रु गतौ–इनन्। धनम्। निघ० २।१०। सचेतसौ। समानमनसौ। मातापितरौ। क्षेत्राणि। दादिभ्यश्छन्दसि। उ० ४।१७०। इति क्षि क्षयैश्वर्यगतिनिवासेषु–त्रन्। क्षेत्रं क्षियतेर्निवासकर्मणः–निरु० १०।१४। ऐश्वर्याणि। भूमिप्रदेशान्। सहसा। बलेन तव दत्तेन। अयम्। निर्दिष्टः पुरुषः। इन्द्र। हे परमैश्वर्यवन् परमात्मन्। कृण्वानः। कुर्वाणः। उत्पादयन्। अन्यान्। माछाशसिभ्यो यः। उ० ४।१०९। इति अन जीवने–य। अनिति जीवतीति अन्यः। जीवितान्। भिन्नान्। अधरान्। न+धृङ्–अच्। अधोगतान्। नीचान्। सपत्नान्। अ० १।९।२। सहपतनशीलान्। शत्रून् ॥

    इस भाष्य को एडिट करें
    Top