अथर्ववेद - काण्ड 2/ सूक्त 34/ मन्त्र 3
सूक्त - अथर्वा
देवता - अग्निः, विश्वकर्मा
छन्दः - त्रिष्टुप्
सूक्तम् - पशुगण सूक्त
ये ब॒ध्यमा॑न॒मनु॒ दीध्या॑ना अ॒न्वैक्ष॑न्त॒ मन॑सा॒ चक्षु॑षा च। अ॒ग्निष्टानग्रे॒ प्र मु॑मोक्तु दे॒वो वि॒श्वक॑र्मा प्र॒जया॑ संररा॒णः ॥
स्वर सहित पद पाठये । ब॒ध्यमा॑नम् । अनु॑ । दीध्या॑ना: । अ॒नु॒ऽऐक्ष॑न्त । मन॑सा । चक्षु॑षा । च॒ । अ॒ग्नि: । तान् । अग्रे॑ । प्र । मु॒मो॒क्तु॒ । दे॒व: । वि॒श्वऽक॑र्मा । प्र॒ऽजया॑ । स॒म्ऽर॒रा॒ण: ॥३४.३॥
स्वर रहित मन्त्र
ये बध्यमानमनु दीध्याना अन्वैक्षन्त मनसा चक्षुषा च। अग्निष्टानग्रे प्र मुमोक्तु देवो विश्वकर्मा प्रजया संरराणः ॥
स्वर रहित पद पाठये । बध्यमानम् । अनु । दीध्याना: । अनुऽऐक्षन्त । मनसा । चक्षुषा । च । अग्नि: । तान् । अग्रे । प्र । मुमोक्तु । देव: । विश्वऽकर्मा । प्रऽजया । सम्ऽरराण: ॥३४.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 34; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३–ये। विद्वांसः। बध्यमानम्। सार्वधातुके यक्। पा० ३।१।६७। इति बन्ध बन्धने–कर्मणि यक्, ततः शानच्। बन्धने गच्छन्तम्। अनु। अनुलक्ष्य। दीध्यानाः। दीधीङ् दीप्तिदेवनयोः–शानच्। दीप्यमानाः। अन्वैक्षन्त। ईक्ष दर्शने–छान्दसो लङ्। अनुकूलम् अनुक्रमेण वा दृष्टवन्तः। मनसा चित्तेन। चक्षुषा। अ० १।३३।४। दर्शनेन्द्रियेण। नेत्रेण। अग्निः। सर्वत्रगतिः परमेश्वरः। तान्। विदुषः पुरुषान्। युष्मत्तत्ततक्षुःष्वन्तःपादम्। पा० ८।३।१०३। इति (अग्निष्टान्) इत्यत्र षत्वम्। अग्रे। अग्रे वर्त्तमानान्। प्र। प्रकर्षेण। मुमोक्तु। छन्दसि शपः श्लुः। मोचयतु विघ्नात्। देवः। दीप्यमानः। विश्वकर्मा। सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति विश्व+कृञ्–मनिन्। विश्वकर्मा सर्वस्य कर्त्ता [मध्यस्थानः]–निरु० १०।२५। विश्वेषु कर्म यस्य। सर्वकर्त्ता। परमात्मा। प्रजया। स्वसृष्ट्या। संरराणः। संरममाणः। सहरममाणः। सम्यग्रममाणः। यद्वा। रा दाने, ग्रहणे, रै शब्दे–लिटः कानच्। सम्यग्दाता ग्रहीता शब्दायमानो वा ॥
इस भाष्य को एडिट करें