अथर्ववेद - काण्ड 2/ सूक्त 34/ मन्त्र 4
सूक्त - अथर्वा
देवता - वायुः, प्रजापतिः
छन्दः - त्रिष्टुप्
सूक्तम् - पशुगण सूक्त
ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पा॒ विरू॑पाः॒ सन्तो॑ बहु॒धैक॑रूपाः। वा॒युष्टानग्रे॒ प्र मु॑मोक्तु दे॒वः प्र॒जाप॑तिः प्र॒जया॑ संररा॒णः ॥
स्वर सहित पद पाठये । ग्रा॒म्या: । प॒शव॑: । वि॒श्वऽरू॑पा: । विऽरू॑पा: । सन्त॑: । ब॒हु॒ऽधा । एक॑ऽरूपा: । वा॒यु: । तान् । अग्रे॑ । प्र । मु॒मो॒क्तु॒ । दे॒व: । प्र॒जाऽप॑ति: । प्र॒ऽजया॑ । स॒म्ऽर॒रा॒ण: ॥३४.४॥
स्वर रहित मन्त्र
ये ग्राम्याः पशवो विश्वरूपा विरूपाः सन्तो बहुधैकरूपाः। वायुष्टानग्रे प्र मुमोक्तु देवः प्रजापतिः प्रजया संरराणः ॥
स्वर रहित पद पाठये । ग्राम्या: । पशव: । विश्वऽरूपा: । विऽरूपा: । सन्त: । बहुऽधा । एकऽरूपा: । वायु: । तान् । अग्रे । प्र । मुमोक्तु । देव: । प्रजाऽपति: । प्रऽजया । सम्ऽरराण: ॥३४.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 34; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४–ये। पशवः। ग्राम्याः। ग्रसेरा च। उ० १।१४३। इति ग्रस भक्षे–मन्, धातोराकारान्तादेशश्च। ग्रसन्ति यत्र मिलित्वा। ग्रामाद् यखञौ। पा० ४।२।९४। ग्रामे शालासमुदाये भवा उत्पन्नाः। ग्रामीणाः। पशवः। प्राणिनः। विश्वरूपाः। खष्पशिल्पशष्पवाष्परूपपर्पतल्पाः। उ० ३।२८। इति रु शब्दे–प, दीर्घश्च। रूयते कीर्त्त्यते तद् रूपम्। शुक्लादिवर्णम्। आकृतिः। स्वभावः। सौन्दर्यम्। नानावर्णाः। विरूपाः। विरुद्धाकाराः। सन्तः। वर्त्तमाना अपि। बहुधा। विभाषा बहोर्धाऽविप्रकृष्टकाले। पा० ५।४।२०। इति बहु+धा। बहुप्रकारम्। प्रायेण। एकरूपाः। परमेश्वराज्ञापालन एकस्वभावाः। वायुः। अ० २।२०।१। सर्वव्यापी। परमेश्वरः पवनः। प्रजापतिः। यज्ञः–निघ० ३।१८। प्रजानां पाता वा पालयिता वा [मध्यस्थानो देवः] निरु० १०।४२। अन्यद् व्याख्यातम् ॥
इस भाष्य को एडिट करें