Loading...
अथर्ववेद > काण्ड 2 > सूक्त 34

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 34/ मन्त्र 5
    सूक्त - अथर्वा देवता - आशीर्वचनम् छन्दः - त्रिष्टुप् सूक्तम् - पशुगण सूक्त

    प्र॑जा॒नन्तः॒ प्रति॑ गृह्णन्तु॒ पूर्वे॑ प्रा॒णमङ्गे॑भ्यः॒ पर्या॒चर॑न्तम्। दिवं॑ गछ॒ प्रति॑ तिष्ठा॒ शरी॑रैः स्व॒र्गं या॑हि प॒थिभि॑र्देव॒यानैः॑ ॥

    स्वर सहित पद पाठ

    प्र॒ऽजा॒नन्त॑: । प्रति॑ । गृ॒ह्ण॒न्तु॒ । पूर्वे॑ । प्रा॒णम् । अङ्गे॑भ्य: । परि॑ । आ॒ऽचर॑न्तम् । दिव॑म् । ग॒च्छ॒ । प्रति॑ । ति॒ष्ठ॒ । शरी॑रै: । स्व॒:ऽगम् । या॒हि॒ । प॒थिऽभि॑: । दे॒व॒ऽयानै॑: ॥३४.५॥


    स्वर रहित मन्त्र

    प्रजानन्तः प्रति गृह्णन्तु पूर्वे प्राणमङ्गेभ्यः पर्याचरन्तम्। दिवं गछ प्रति तिष्ठा शरीरैः स्वर्गं याहि पथिभिर्देवयानैः ॥

    स्वर रहित पद पाठ

    प्रऽजानन्त: । प्रति । गृह्णन्तु । पूर्वे । प्राणम् । अङ्गेभ्य: । परि । आऽचरन्तम् । दिवम् । गच्छ । प्रति । तिष्ठ । शरीरै: । स्व:ऽगम् । याहि । पथिऽभि: । देवऽयानै: ॥३४.५॥

    अथर्ववेद - काण्ड » 2; सूक्त » 34; मन्त्र » 5

    टिप्पणीः - टिप्पणी–स्वर्ग का लक्षण टिप्पणी, अ० १।३०।२ में अथर्ववेद का० ६। सू० १२० म० ३ के प्रमाण से दिया है, वहाँ देख लीजिये ॥ ५–प्रजानन्तः। प्र+ज्ञा–शतृ। प्रकर्षेण जानन्तः। महाविद्वांसः। प्रति। प्रत्यक्षम्। गृह्णन्तु। स्वीकुर्वन्तु। पूर्वे। प्रतिष्ठास्थाने वर्त्तमानाः। प्रधानाः। प्राणम्। अ० २।१५।१। जीवनसाधनं प्राणापानरूपं बलम्। अङ्गेभ्यः। अ० १।१२।४। अङ्गानां हिताय। परि। सर्वतः। आचरन्तम्। चर–शतृ। आगच्छन्तम्। दिवम्। अ० १।३०।३। प्रकाशम्। शरीरैः। अ० २।१२।८। शरीराङ्गैः सह। स्वर्गम्। स्वः–इति व्याख्यातम् अ० २।५।२। स्वः सुखं गीयते यत्र, स्वः+गै–क। यद्वा, सुष्ठु अर्ज्यते, सु+अर्ज अर्जने–घञ्। शङ्क्वादित्वात् कुत्वम्। देवतानां विदुषां निवासस्थानम्। स्वर्लक्षणं द्रष्टव्यम्–टिप्पण्याम्। अ० १।३०।२। पथिभिः। पतस्थ च। उ० ४।१२। इति पत्लृ गतौ–इति, थश्चान्तादेशः। मार्गैः। देवयानैः। देव+या गतौ–ल्युट्। देवानां यानं गमनं यैः। देवगमनयोग्यैः ॥

    इस भाष्य को एडिट करें
    Top