अथर्ववेद - काण्ड 20/ सूक्त 11/ मन्त्र 3
इन्द्रो॑ वृ॒त्रम॑वृणो॒च्छर्ध॑नीतिः॒ प्र मा॒यिना॑ममिना॒द्वर्प॑णीतिः। अह॒न्व्यंसमु॒शध॒ग्वने॑ष्वा॒विर्धेना॑ अकृणोद्रा॒म्याणा॑म् ॥
स्वर सहित पद पाठइन्द्र॑: । वृ॒त्रम् । अ॒वृ॒णो॒त् । शर्ध॑ऽनीति: । प्र । मा॒यिना॑म् । अ॒मि॒ना॒त् । वर्प॑ऽनीति॑: ॥ अह॑न् । विऽअं॑सम् । उ॒शध॑क् । वने॑षु । आ॒वि: । धेना॑: । अ॒कृ॒णो॒त् । रा॒म्याणा॑म् ॥११.३॥
स्वर रहित मन्त्र
इन्द्रो वृत्रमवृणोच्छर्धनीतिः प्र मायिनाममिनाद्वर्पणीतिः। अहन्व्यंसमुशधग्वनेष्वाविर्धेना अकृणोद्राम्याणाम् ॥
स्वर रहित पद पाठइन्द्र: । वृत्रम् । अवृणोत् । शर्धऽनीति: । प्र । मायिनाम् । अमिनात् । वर्पऽनीति: ॥ अहन् । विऽअंसम् । उशधक् । वनेषु । आवि: । धेना: । अकृणोत् । राम्याणाम् ॥११.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 11; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - यह मन्त्र यजुर्वेद में भी है-३३।२६ ॥ ३−(इन्द्रः) परमैश्वर्यवान् राजा (वृत्रम्) शत्रुम् (अवृणोत्) आच्छादितवान् (शर्धनीतिः) शर्धतिरुत्साहार्थः-घञ्+णीञ् प्रापणे-क्तिच्। शर्धो बलनाम-निघ० २।९। बलस्य सैन्यस्य नायकः (प्र) प्रकर्षेण (मायिनाम्) कपटिनाम् (अमिनात्) मीञ् हिंसायाम्-लङ्। कर्तृप्रयोगः कर्मण्यर्थे। हिंसितो दुःखितोऽभूत् (वर्पनीतिः) खष्पशिल्पशष्प०। उ० ३।२८। वृञ् आच्छादने-पप्रत्ययः+णीञ् प्रापणे-क्तिच्। वर्प आवरकः कपटी नीतिर्नेता (अहन्) अवधीत् (व्यंसम्) अमेः सन्। उ० ।२१। अम पीडने-सन्। विविधपीडकम् (उशधक्) उष वधे-क+दह दाहे-क्विप्, षस्य शः। हिंसकानां दाहकः (वनेषु) जङ्गलेषु (आविः) प्राकट्ये (धेनाः) वाचः (अकृणोत्) कृवि हिंसाकरणयोः-लङ्। अकरोत् (राम्याणाम्) ऋहलोर्ण्यत्। पा० ३।१।१२४। रमु क्रीडायाम्, ण्यर्थाद् ण्यत्। कृत्यल्युटो बहुलम्। पा० ३।३।११३। इति कर्तृप्रत्ययः। रमयन्ति आनन्दयन्ति तेषाम्-दयानन्दभाष्ये, यजु० ३३।२६। रमयितॄणां रामाणाम् आनन्दयितॄणां पुरुषाणाम् ॥
इस भाष्य को एडिट करें