Loading...
अथर्ववेद > काण्ड 20 > सूक्त 11

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 11/ मन्त्र 6
    सूक्त - विश्वामित्रः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-११

    म॒हो म॒हानि॑ पनयन्त्य॒स्येन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑। वृ॒जने॑न वृजि॒नान्त्सं पि॑पेष मा॒याभि॑र्द॒स्यूँर॒भिभू॑त्योजाः ॥

    स्वर सहित पद पाठ

    म॒ह: । म॒हानि॑ । प॒न॒य॒न्ति॒ । अ॒स्य॒ । इन्द्र॑स्य । कर्म॑ । सऽकृ॑ता । पु॒रूणि॑ । वृ॒जने॑न । वृ॒जि॒नान् । सम् । पि॒पे॒ष॒ । मा॒याभि॑:। दस्यू॑न् । अ॒भिभू॑तिऽओजा: ॥११.६॥


    स्वर रहित मन्त्र

    महो महानि पनयन्त्यस्येन्द्रस्य कर्म सुकृता पुरूणि। वृजनेन वृजिनान्त्सं पिपेष मायाभिर्दस्यूँरभिभूत्योजाः ॥

    स्वर रहित पद पाठ

    मह: । महानि । पनयन्ति । अस्य । इन्द्रस्य । कर्म । सऽकृता । पुरूणि । वृजनेन । वृजिनान् । सम् । पिपेष । मायाभि:। दस्यून् । अभिभूतिऽओजा: ॥११.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 11; मन्त्र » 6

    टिप्पणीः - ६−(महः) मह पूजायाम्-क्विप्। महान्तः पुरुषाः (महानि) मह पूजायाम्-अप्। महान्ति (पनयन्ति) छान्दसो ह्रस्वः। पनायन्ति। स्तुवन्ति (अस्य) प्रसिद्धस्य (इन्द्रस्य) महातेजस्विनः पुरुषस्य (कर्म) कर्माणि (सुकृता) धर्मेण सम्पादितानि (पुरूणि) बहूनि (वृजनेन) कॄपॄवृजिमन्दिनिधाञः क्युः। उ० २।८१। वृजी वर्जने-क्यु। बलेन-निघ० २।९ (वृजिनान्) वृजेः किच्च। उ० २।४७। वृजी वर्जने-इनच्। वृजिन-अर्शआद्यच्। वृजनं पापं तद्वतः। पापिनः पुरुषान् (सं पिपेष) पिष्लृ संचूर्णने-लिट्। सम्यक् चूर्णीचकार (मायाभिः) प्रज्ञाभिः-निघ० ३।९। (दस्यून्) साहसिकान्। उत्कोचकान्। चोरान् (अभिभूत्योजाः) अभिभूतिं पराजयकरमोजा बलं यस्य सः ॥

    इस भाष्य को एडिट करें
    Top