Loading...
अथर्ववेद > काण्ड 20 > सूक्त 11

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 11/ मन्त्र 4
    सूक्त - विश्वामित्रः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-११

    इन्द्रः॑ स्व॒र्षा ज॒नय॒न्नहा॑नि जि॒गायो॒शिग्भिः॒ पृत॑ना अभि॒ष्टिः। प्रारो॑चय॒न्मन॑वे के॒तुमह्ना॒मवि॑न्द॒ज्ज्योति॑र्बृह॒ते रणा॑य ॥

    स्वर सहित पद पाठ

    इन्द्र॑: । स्व॒:ऽसा । ज॒नय॑न् । अहा॑नि । जि॒गाय॑ । उ॒शिक्ऽभि॑: । पृत॑ना: । अ॒भि॒ष्टि: ॥ प्र । अ॒रो॒च॒यत् । मन॑वे । के॒तुम् । अह्ना॑म् । अवि॑न्दत् । ज्योति॑: । बृ॒ह॒ते । रणा॑य ॥११.४॥


    स्वर रहित मन्त्र

    इन्द्रः स्वर्षा जनयन्नहानि जिगायोशिग्भिः पृतना अभिष्टिः। प्रारोचयन्मनवे केतुमह्नामविन्दज्ज्योतिर्बृहते रणाय ॥

    स्वर रहित पद पाठ

    इन्द्र: । स्व:ऽसा । जनयन् । अहानि । जिगाय । उशिक्ऽभि: । पृतना: । अभिष्टि: ॥ प्र । अरोचयत् । मनवे । केतुम् । अह्नाम् । अविन्दत् । ज्योति: । बृहते । रणाय ॥११.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 11; मन्त्र » 4

    टिप्पणीः - ४−(इन्द्रः) परमैश्वर्यवान् सेनापतिः (स्वर्षाः) अ० ।२।८। स्वः+षण दाने-विट्, आत्त्वं षत्वं च। सुखस्य दाता (जनयन्) प्रकटयन् (अहानि) दिनानि। दिनकर्माणि (जिगाय) जि जये-लिट्। जितवान् (उशिग्भिः) वशेः कित्। उ० २।७१ वश कान्तौ-इजि प्रत्ययः। उशिजो मेधाविनाम-निघ० ३।१। कामयमानैर्मेधाविभिः (पृतनाः) सङ्ग्रामान्-निघ० २।१७ (अभिष्टिः) यज संगतिकरणे-क्तिन्। अभितः संगतिकर्ता (प्र) प्रकर्षेण (अरोचयत्) अदीपयत् (मनवे) मननशीलाय मनुष्याय (केतुम्) प्रज्ञाम् (अह्नाम्) दिनानाम् (अविन्दत्) अलभत (ज्योतिः) तेजः (बृहते) महते (रणाय) रणं सङ्ग्रामं जेतुम् ॥

    इस भाष्य को एडिट करें
    Top