अथर्ववेद - काण्ड 20/ सूक्त 141/ मन्त्र 3
यद॒द्याश्विना॑व॒हं हु॒वेय॒ वाज॑सातये। यत्पृ॒त्सु तु॒र्वणे॒ सह॒स्तच्छ्रेष्ठ॑म॒श्विनो॒रवः॑ ॥
स्वर सहित पद पाठयत् । अ॒द्य । अ॒श्विनौ॑ । अ॒हम् । हु॒वेय॑ । वाज॑ऽसातये ॥ यत् । पृ॒त्ऽसु । तु॒र्वणे॑ । सह॑: । तत् । श्रेष्ठ॑म् । अ॒श्विनो॑: । अव॑: ॥१४१.३॥
स्वर रहित मन्त्र
यदद्याश्विनावहं हुवेय वाजसातये। यत्पृत्सु तुर्वणे सहस्तच्छ्रेष्ठमश्विनोरवः ॥
स्वर रहित पद पाठयत् । अद्य । अश्विनौ । अहम् । हुवेय । वाजऽसातये ॥ यत् । पृत्ऽसु । तुर्वणे । सह: । तत् । श्रेष्ठम् । अश्विनो: । अव: ॥१४१.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 141; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(यत्) यदा (अद्य) अस्मिन् दिने (अश्विनौ) म० २। व्यापकौ। अहोरात्रौ (अहम्) (हुवेय) आह्वयेय (वाजसातये) विज्ञानस्य लाभाय (यत्) (पृत्सु) संग्रामेषु (तुर्वणे) कॄपॄवृजि०। उ० २।८१। तुर्वी हिंसायाम्-क्यु। शत्रूणां नाशने (सहः) अभिभवितृ बलम् (तत्) (श्रेष्ठम्) प्रशस्यतमम् (अश्विनोः) अहोरात्रयोः (अवः) रक्षणं भवतु ॥
इस भाष्य को एडिट करें