अथर्ववेद - काण्ड 20/ सूक्त 141/ मन्त्र 4
आ नू॒नं या॑तमश्विने॒मा ह॒व्यानि॑ वां हि॒ता। इ॒मे सोमा॑सो॒ अधि॑ तु॒र्वशे॒ यदा॑वि॒मे कण्वे॑षु वा॒मथ॑ ॥
स्वर सहित पद पाठआ । नू॒नम् । या॒त॒म् । अ॒श्वि॒ना॒ । इ॒मा । ह॒व्यानि॑ । वा॒म् । हि॒ता ॥ इ॒मे । सोमा॑स: । अधि॑ । तु॒र्वशे॑ । यदौ॑ । इ॒मे । कण्वे॑षु । वा॒म् । अथ॑ ॥१४१.४॥
स्वर रहित मन्त्र
आ नूनं यातमश्विनेमा हव्यानि वां हिता। इमे सोमासो अधि तुर्वशे यदाविमे कण्वेषु वामथ ॥
स्वर रहित पद पाठआ । नूनम् । यातम् । अश्विना । इमा । हव्यानि । वाम् । हिता ॥ इमे । सोमास: । अधि । तुर्वशे । यदौ । इमे । कण्वेषु । वाम् । अथ ॥१४१.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 141; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(आ यातम्) आगच्छतम् (नूनम्) अवश्यम् (अश्विना) म० २। हे व्यापकौ अहोरात्रौ (इमा) पुरोवर्तीनि (हव्यानि) ग्राह्यवस्तूनि (वाम्) युवाभ्याम् (हिता) धृतानि (इमे) दृश्यमानाः (सोमासः) तत्त्वरसाः (अधि) आधिक्येन (तुर्वशे) अ० २०।३७।८। नरां हिंसकानां वशयितरि (यदौ) यती प्रयत्ने-उप्रत्ययः, तकारस्य दः। प्रयत्नशीले (इमे) (कण्वेषु) मेधाविषु (वाम्) युवयोः (अथ) अपि च ॥
इस भाष्य को एडिट करें