अथर्ववेद - काण्ड 20/ सूक्त 141/ मन्त्र 5
यन्ना॑सत्या परा॒के अ॑र्वा॒के अस्ति॑ भेष॒जम्। तेन॑ नू॒नं वि॑म॒दाय॑ प्रचेतसा छ॒र्दिर्व॒त्साय॑ य॒च्छत॑म् ॥
स्वर सहित पद पाठयत् । ना॒स॒त्या॒ । प॒रा॒के । अ॒र्वा॒के । अस्ति॑ । भे॒ष॒जम् ॥ तेन॑ । नू॒नम् । वि॒ऽम॒दाय॑ । प्र॒ऽचे॒त॒सा॑ । छ॒र्दि: । व॒त्साय॑ । य॒च्छ॒त॒म् ॥१४१.५॥
स्वर रहित मन्त्र
यन्नासत्या पराके अर्वाके अस्ति भेषजम्। तेन नूनं विमदाय प्रचेतसा छर्दिर्वत्साय यच्छतम् ॥
स्वर रहित पद पाठयत् । नासत्या । पराके । अर्वाके । अस्ति । भेषजम् ॥ तेन । नूनम् । विऽमदाय । प्रऽचेतसा । छर्दि: । वत्साय । यच्छतम् ॥१४१.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 141; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - −(यत्) (नासत्या) सू० १४०।१। हे सदा सत्यस्वभावौ (पराके) पिनाकादयश्च। उ० ४।१। परा+क्रमु पादविक्षेपे-आकप्रत्ययः, धातुलोपः। पराके दूरनाम-निघ० ३।२६। पराके पराक्रान्ते-निरु० ।९। दूरदेशे (अर्वाके) वलाकादयश्च। उ० ४।१४। अर्वाक्+क्रमु पादविक्षेपे-आकप्रत्ययः, धातुलोपः। अर्वाके अन्तिकनाम-निघ० ३।१६। समीपे (अस्ति) (भेषजम्) औषधम् (तेन) भेषजेन सह (नूनम्) अवश्यम् (विमदाय) अ० ४।२९।४। निरहंकाराय। अदीनाय (प्रचेतसा) प्रकृष्टं ज्ञानं याभ्यां तौ। हे प्रकृष्टज्ञानकारकौ (छर्दिः) गृहम् (वत्साय) सू० १३८।१। शास्त्राणां कथनशीलाय (यच्छतम्) दत्तम् ॥
इस भाष्य को एडिट करें