Loading...
अथर्ववेद > काण्ड 20 > सूक्त 142

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 142/ मन्त्र 1
    सूक्त - शशकर्णः देवता - अश्विनौ छन्दः - अनुष्टुप् सूक्तम् - सूक्त १४२

    अभु॑त्स्यु॒ प्र दे॒व्या सा॒कं वा॒चाह॑म॒श्विनोः॑। व्या॑वर्दे॒व्या म॒तिं वि रा॒तिं मर्त्ये॑भ्यः ॥

    स्वर सहित पद पाठ

    अभु॑त्सि । ऊं॒ इति॑ । प्र । दे॒व्या । सा॒कम् । वा॒चा । अ॒हम् । अ॒श्विनो॑: ॥ वि । आ॒व॒: । दे॒वि॒ । आ । मतिम् । वि । रा॒तिम् ।मर्त्ये॑भ्य: ॥१४२.१॥


    स्वर रहित मन्त्र

    अभुत्स्यु प्र देव्या साकं वाचाहमश्विनोः। व्यावर्देव्या मतिं वि रातिं मर्त्येभ्यः ॥

    स्वर रहित पद पाठ

    अभुत्सि । ऊं इति । प्र । देव्या । साकम् । वाचा । अहम् । अश्विनो: ॥ वि । आव: । देवि । आ । मतिम् । वि । रातिम् ।मर्त्येभ्य: ॥१४२.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 142; मन्त्र » 1

    टिप्पणीः - यह सूक्त ऋग्वेद में है-८।९।१६-२१ ॥ १−(प्र अभुत्सि) बुध अवगमने-लुङ्। प्रबुद्धोऽस्मि (उ) अवश्यम् (देव्या) उत्तमगुणवत्या (साकम्) सह (वाचा) वाण्या (अहम्) (अश्विनोः) सू० १४०। म० २। व्यापकयोः। अहोरात्रमध्ये (वि आवः) वृणोतेर्लुङ्। त्वं विवृतां विस्तृतां कृतवती (देवि) हे द्योतमाने उषः-म० २। (आ) आगत्य (मतिम्) बुद्धिम् (वि) विशेषेण (रातिम्) धनम् (मर्त्येभ्यः) मनुष्याणां हिताय ॥

    इस भाष्य को एडिट करें
    Top