Loading...
अथर्ववेद > काण्ड 20 > सूक्त 142

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 142/ मन्त्र 4
    सूक्त - शशकर्णः देवता - अश्विनौ छन्दः - अनुष्टुप् सूक्तम् - सूक्त १४२

    यदापी॑तासो अं॒शवो॒ गावो॒ न दु॒ह्र ऊध॑भिः। यद्वा॒ वाणी॒रनु॑षत॒ प्र दे॑व॒यन्तो॑ अ॒श्विना॑ ॥

    स्वर सहित पद पाठ

    यत् । आऽपी॑तास: । अं॒शव॑: । गाव॑: । न । दु॒ह्रे । ऊध॑ऽभि: ॥ यत् । वा॒ । वाणी॑: । अनू॑षत । प्र । दे॒व॒ऽयन्त॑: । अ॒श्विना॑ ॥१४२.४॥


    स्वर रहित मन्त्र

    यदापीतासो अंशवो गावो न दुह्र ऊधभिः। यद्वा वाणीरनुषत प्र देवयन्तो अश्विना ॥

    स्वर रहित पद पाठ

    यत् । आऽपीतास: । अंशव: । गाव: । न । दुह्रे । ऊधऽभि: ॥ यत् । वा । वाणी: । अनूषत । प्र । देवऽयन्त: । अश्विना ॥१४२.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 142; मन्त्र » 4

    टिप्पणीः - ४−(यत्) यदा (आपीतासः) समन्तात् कृतपानाः (अंशवः) अंश विभाजने-कु। विभक्ताः सोमाः। तत्त्वरसाः (गावः) धेनवः (न) यथा (दुह्रे) अथ० १०।१०।३२। प्रपूर्यन्ते (ऊधभिः) आपीनैः। क्षीराधारैः (यत्) यदा (वा) समुच्चये (वाणीः) वाणीभिः (अनूषत) णू स्तवने, लङर्थे लुङ्। नुवन्ति। स्तुवन्ति (प्र) प्रकर्षेण (देवयन्तः) देवान् दिव्यगुणान् कामयमानाः पुरुषाः (अश्विना) व्यापकौ। अहोरात्रौ ॥

    इस भाष्य को एडिट करें
    Top