अथर्ववेद - काण्ड 20/ सूक्त 29/ मन्त्र 2
सूक्त - गोषूक्त्यश्वसूक्तिनौ
देवता - इन्द्रः
छन्दः - गायत्री
सूक्तम् - सूक्त-२९
इन्द्र॒मित्के॒शिना॒ हरी॑ सोम॒पेया॑य वक्षतः। उप॑ य॒ज्ञं सु॒राध॑सम् ॥
स्वर सहित पद पाठइन्द्र॑म् । इत् । के॒शिना॑ । हरी॒ इति॑ । सो॒म॒ऽपेया॑य । व॒क्ष॒त॒: ॥ उप॑ । य॒ज्ञम् । सु॒ऽराध॑सम् ॥२९.२॥
स्वर रहित मन्त्र
इन्द्रमित्केशिना हरी सोमपेयाय वक्षतः। उप यज्ञं सुराधसम् ॥
स्वर रहित पद पाठइन्द्रम् । इत् । केशिना । हरी इति । सोमऽपेयाय । वक्षत: ॥ उप । यज्ञम् । सुऽराधसम् ॥२९.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 29; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - इस मन्त्र का मिलान करो-२०।३।२ ॥ २−(इन्द्रम्) परमैश्वर्यवन्तं पुरुषम्। (इत्) एव (केशिना) प्रशस्तकेशयुक्तौ। स्कन्धादिचिक्कणबालोपेतौ (हरी) रथस्य वाहकावश्वाविव बलपराक्रमौ (सोमपेयाय) अचो यत् पा० ३।१।९७। सोम+पा रक्षणे-यत्। ईद्यति। पा० ६।४।६। आकारस्य ईकारः। ऐश्वर्यस्य रक्षणाय (वक्षतः) वह प्रापणे-लेट्। वहताम्। प्रापयताम् (उप) प्रति (यज्ञम्) पूजनीयं व्यवहारम् (सुराधसम्) बहुधनवन्तम् ॥
इस भाष्य को एडिट करें